SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 6. रसभावनिरूपणपरिच्छेदः / 'विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः [ सू० 1] स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतया ज्ञायन्तेयैस्तैर्विभावैः काव्य-नाट्यशास्त्रप्रसिद्घरालम्बनोद्दीपनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सामाजिकजनोऽनुभवन्ननुभाव्यते-साक्षात्कार्यते / यस्तैरनुभावैः कटाक्षभुजाक्षेपादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिधृति-स्मृतिप्रभृतिभिः, स्थायिभावानुमापकत्वेन लोके कारण-कार्यसहचारिशब्दव्यपदेश्यैः, ममैवैते परस्यैवैते न ममैते न परस्यैते–इति संबन्धिविशेषस्वीकारपरिहारनियमानवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी इत्यादिको भावो नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् सहृदयहृदयसंवादभाजा 10 साधारण्येन गोचरीक्रियमाणश्चर्थमाणतैकप्राणो विभावादिभावनावधिरलौकिकचमत्कारकारितया परब्रह्मास्वादसोदरोऽभिमीलितनयनैः कविसहृदयै रस्यमानः स्वसंवेदनसिद्धो रसः। - स च न विभावादेः कार्यस्तद्विनाशेऽपि रससंभवप्रसङ्गात् / नापि ज्ञाप्यः सिद्धस्य तस्याभावात् / कारक-ज्ञापकाभ्यामन्यत् क दृष्टमिति चेन्न, कचिददृष्टमित्यलौकिकत्व- 1: सिद्धे भूषणमेतन्न दूषणम् / विभावादीनां च समस्तानामभिव्यञ्जकत्वं न व्यस्तानाम् , व्यभिचारात् / व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुत-रौद्राणाम् / अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गार-भयानकयोः, चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गार-वीर-भयानकानाम् / यत्राप्येकैकस्योपादानम् , यथाकेलीकन्दलितस्य विभ्रममधोधुर्य वपुस्ते देशौ / भङ्गीभङ्गुरकामकार्मुकमिदं भूनर्मकर्मक्रमः / आपातेऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः सत्यं सुन्दरि ! वेधसस्त्रिजगतीसारं तवैवाकृतिः // 1 // [अभिनवगुप्तलोचने अभिनवभारत्यां च / ] 25 1. काव्यानुशासनस्य द्वितीयाध्यायादुद्धृतोऽयं परिच्छेदः / 2. 'दृशोभङ्गी' इति पठयम् / 30
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy