SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 110] काव्यशिक्षा पूर्वोऽभ्यासस्तवारीणां संग्रामे यत् पलायनम् / इदानी द्वयमभ्यस्तं वने वासो दरिद्रता // 221 // पूर्वोऽभ्यासः समस्तोऽपि रूपसिद्धौ गतो मम / इदानी द्वयमभ्यस्तं भोजनं शयनं तथा // 222 // पण्याच्छिल्पान्नियोगाच्च क्रीतादेरायुधादपि / वित्तमादाय लोकोऽयं सर्वः स्त्रीषु निमज्जति // 223 // इरग्निः स्यान्ममाप्येवं शर्ववर्ममतं मतम् / दन्दहीति मनोऽरण्यं कामिनां कथमन्यथा // 224 // स्यातां यदि पदे द्वे तु यदि वा स्युर्बहून्यपि / तथापि बद्धमुष्टित्वं न त्यजन्ति नियोगिनः // 225 / / स्त्री नदीवदिदं सत्यं रसेनार्गलिता सती / यतो ध्वंसं विधत्तेऽसौ कूलवत् कुलयोर्द्वयोः // 226 // गुणबाधिका न वृद्धिः प्रकृतिप्रत्ययविभक्तिलोपो वा / न भवति तथापवादो न व्याकरणस्थितिरिदानीम् // 227 // दुषिधातोरिवास्माकं दोषनिष्पत्तये गुणः / पश्य गोघट किं कुर्मः कर्मणामिदृशी गतिः // 228 // तथा चौडललाटसन्ध्यक्षराणि वाचय / सव्यञ्जनाः सुलोचनाः, परापवादेध्वघोषाः, घोषवन्तः कृत्येन, अन्तःस्था धर्मकृत्येषु, सोष्माणः परविग्रहेषु, सर्वदा लिङ्गप्रकाशितविभक्तयः सदागमाः सश्रद्धाः प्रकाशितवंश्यसर्वनामानः सत्कारका ईप्सिता30 औरक्षकाः संप्रदानप्रगुणा योधा वैयाकरणा इवाधिकरणप्रियाः / मुनयः पूर्ववत् विदलितकरणाः शुभकर्माणः सहेतवः / द्विगुना तत्पुरुषेणाधिष्ठिता दृश्यमानबहुव्रीहयः केदाराः / द्वन्द्वस्थाः क्षत्रियाः सतद्धिताः कृतापत्यप्रत्ययाः सवृद्धयः / ये ददति परस्मैपदं नात्मनेपदम् / क्रियाभावा वर्तमानेन वर्तन्ते न परोक्षाचारेण सप्रयोगाः सानुमतयः / आचाराल्लब्धोपमाना न द्विरुक्तिप्रियाः कृतसंप्रसारणाः 25 परेषाम् / गुणिनः ससिद्धयः- इत्यादि लक्षणपदैः प्रज्ञानुमानतः काव्यम् / इति काव्यतत्त्वबीजं हृदयस्थलमुप्तमतुलरससिक्तम् / उत्पादयति मनोज्ञं यशःफलं विनयमहनीयम् // 229 // इत्याचार्यश्रीविनयचन्द्रलिखितायां काव्यशिक्षायां विनयात्रायां बीजव्यावर्णनो नाम चतुर्थः परिच्छेदः // 1 सकरः-सहस्तः [-सं०] / 51
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy