________________ 104 आ ] काव्यशिक्षा तस्य स्वरूपत्वम् आम्नायत्व-कौलीन्यं वा व्यवस्थां वा न्यासस्थितिं ज्ञातुमुद्यत इव / शेषं सुगमम् / . इष्टप्राप्त्यै रिपुच्छित्यै कौतुकात् पूर्वजक्रमात् / दम्भकैतवशब्देन भवेदर्थस्य संगतिः // 193 // व्याख्या- ये केचन महीतले पदार्थास्ते स्वर्गेऽपि ज्ञेयाः / तद्यथा-प्रासादानामिष्टं विमानं तत्किङ्किणीकाणेन आकारयतीव आवर्जयतीव / तथा तुरगाः प्रजविनः व्योममण्डलं गच्छन्तो दिनकररथतुरगमिलनायेव धावन्ति / गजा उच्चैस्तरा ऐरावणेन सह सङ्गतिकरणायेव करान् व्योमगान् कुर्वन्ति / उत्फाला हरिणा हरिणाङ्कहरिणमिलनायेव व्योममण्डलमुत्पतन्ति / य एव इष्टास्त एव रिपवः कल्पनावशात् / 10 जेतुमित्यादिभिः क्रियाभिः पूर्व पदार्था योज्यन्ते / कौतुकात् प्रासादा उच्चाः कौतुकादिव स्वर्गमनुवर्तन्ते / दम्भकैतवशब्देन, तद्यथा सिंहवृत्तिस्थितामन्तर्मू मिव बिभर्ति यः / सिंहलक्ष्मच्छलाल्लक्ष्म्यै सोऽस्तु वीरजिनेश्वरः // 194 // यथा वा 15 . भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः / यः पाञ्चयज्ञप्रतिबिम्बभङ्गया धाराम्भसः फेनमिव व्यनक्ति // 195 // नेमिं नमामि यं वीक्ष्य चिन्ताधिकफलप्रदम् / अपि शङ्खनिधिः शङ्खलक्ष्मव्याजेन सेवते // 196 // दम्भकैतवशब्दाः पर्यायेण प्रयोज्याः / एवं स्यादर्थसङ्गति / पूर्वजक्रमादि30 अस्माकं कुले कल्पद्रुमाश्चिन्तितार्थसार्थप्रदायिका अवतेरुरिति हेतोः सहकारकारस्कराः पथिकेभ्यः फलानि प्रयच्छन्ति / जीमूतवाहनकुलोत्पन्ना अतो हेतोः परत्राणपरित्राणे क्षत्रियाः वैपरीत्येन / एवं व्याख्यातम् /