________________ [104 अ - बीजव्यावर्णनपरिच्छेदः / मन्त्रे सारस्वतं सारमुपमा स्यादलंकृतौ / भोज्ये दध्योदनं सारं सर्वर्तुषु च माधवः // 187 // सद्ग्रन्थनिर्मिती व्यास-वाल्मीकि-श्रीत्रिविक्रमाः / / धनञ्जयः कालिदासो माघो भारविरित्यपि // 188 // बाणो गुणाढ्योऽभिनन्दिः श्रीहर्षो भोजभूपतिः / सुबन्धुर्धनपालश्च बी(बि)ल्हणो राजशेखरः // 189 // अथ जैनाः भगवान् गौतमस्वामी श्रीशय्यम्भवसूरिराट् / भद्रबाहुर्हरिभद्रः शीलाङ्कः शाकटायनः // 190 // उमास्वातिप्र .... .... .... .... .... .... .... - [अतः परं पुस्तकस्य पत्रं नष्टम् / ] 10 * * [कैलासः ] किल रावणेन तु जितो बाहुद्वयेनाचलः श्रीगोवर्द्धनभूधरो मरुजिता तूर्णं च तीर्णोऽर्णवः / चक्री बाहुबलेन बाहुबलिना भग्नो रणे भूरिशः . तत् सर्वं सुरधामजं विजयते धामोच्चकैर्भूतले // 191 // 15 तज्जेतुं स्पईया हस्ते धत् तस्य जिगीषया / जातं तस्य स्वरूपं च ग्रहीतुं तस्य च श्रियम् // 192 // व्याख्या- प्रासादो विमानानि जेतुमभ्रंलिहशिरा बभूव / अन्येऽपि पदार्था ये तुङ्गत्वे दृश्यन्ते तेषामित्थमर्थोत्पत्तिः / अथवा स्पर्द्धया ममापि किमयमुच्चैस्तर 25 इति तुङ्गत्वे स्पर्द्धया / हस्ते धर्तुमिव(ति) सुगमम् / तस्य जिगीषया इति सुगमम् /