SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ [73 लोककौशल्यपरिच्छेदः / निश्चलगमनसुखायमानखक्खटक्षत्रियस्तूयमानटङ्कणगुणे, सस्तवेसरविसंवादसीदद्दाक्षिणात्यसादिनि, रजोजग्धजगति, प्रयाणसमये, प्रतिदिशमागच्छद्भिर्गजवधूसमारूढेराधोरणैरूवंध्रियमाणहेमपत्रभङ्गसारशाःि , अन्तरासनासीनान्तरङ्गगृहीतासिभिः, ताम्बूलिकविधूयमानचामरपल्लवैः, पश्चिमासनिकापितभस्त्राभरणभिन्दिपालपूलकैः, पत्रलताकुटिलकलधौतनलकपल्लवितपर्याणैः, पर्याणपक्षपरिक्षेपिपट्टिकाबन्धनिश्चलपट्टोपधानस्थिरावधानैः, प्रचलपादफलिकास्फालनस्फायमानपदबन्धमणिशिलाशब्दैः, उच्चित्रनेत्रसुकुमारस्वस्थगगनस्थगितजङ्घाकाण्डैश्च कार्दमिकपट्टकल्माषितपिशङ्गि[ङ्ग पिङ्गैश्च अलिनीलमसृणसतुलासमुत्पादितसितसमायोगपरभागैश्च अवदातदेहविराजमानराजपट्टमेचकैः, कञ्चुकैश्च उपचितचीनचोलकैश्च तारमुक्तास्तबकितस्तबरकवारबाणैश्च नानाकषायकर्बुरकूर्पासकैश्च शुकपिच्छच्छायाच्छादनैश्च व्यायामोल्लुप्तपार्श्वप्रदेशविशच्चारुशस्त्रबन्धप्रविभक्तत्रिकैच, गति- 10 वशवेल्लितहारलतालगल्लोलकुण्डलोन्मोचनप्रधावितपरिजनैश्च, चामीकरपत्राङ्कुरकर्णपूरविघट्टमानवाचालबालपाशैश्च उष्णीषपट्टावष्टब्धकर्णोत्पलनालैश्च कुङ्कुमरागकोमलोत्तरीयान्तरितोत्तमाङ्गैश्च चूडामणिखण्डखचितक्षौमचोलैश्च मायूरातपत्रायमाणशेखरषट्पदपटलैश्च मार्गागतशारिकशारिवाहवेगदण्डैश्च पुरश्चञ्चच्चामरकिर्मीरकारङ्गचर्ममण्डलमण्डनोड्डीयमानडामरचटुलचारभटभरितभुवनान्तरालैः, आस्कन्दत्काम्बोजवाजिशत[शिञान- 15 जातरूपायानरवमुखरितदिङ्मुखैश्च निर्दयप्रहतलम्बापटहशतपटुरवबधिरीकृतश्रवणविवरैः, उद्घोष्यमाणनामभिः, उन्मुखपादातप्रतिपाल्यमानाज्ञापातै राजभिरापुपूरे राजद्वारम् / उदिते च भगवति दिनकृति राज्ञः समायोगग्रहणसमयशंसी सस्वान संज्ञाशङ्खो मुहुर्मुहुः / अथ नचिरादिव प्रथमप्रयाण एव द्विग्विजयाय दिग्गजसमागममिव गमनविलोलकर्णतालदोलाविलासैः कुर्वाणया करेणुकयोह्यमानः, वैदूर्यदण्ड- 20 विकटेनोपरि प्रत्युप्तपद्मरागखण्डखचिततया सूर्योदयदर्शनकोपादिव लोहितायतया ध्रियमाणेन मङ्गलातपत्रेण कदलीग भ्यधिकम्रदिम्ना नवनेत्रनिर्मितेन द्वितीय इव भोगिनामधिपतिरङ्गलग्नेन कञ्चुकेनामृतमथनदिवस इव क्षीरोदफेनपटलधवलाम्बरवाही, बाल एव पारिजातपादप इवाखण्डलभूमिमारूढः, विधूयमानचामरमरुद्विधूतकर्णपूरकुसुममञ्जरीरजसा सकलभुवनवशीकरणचूर्णेनेव दिशश्छुरयन्नभिमुख चूडामणिघटमान- 2 पाटलप्रतिबिम्बमुदयमानं सवितारमपि पिबन्निव तेजसा बहलताम्बूलसिन्दूरच्छुरितया विलभमान इव द्वीपान्तराण्योष्ठमुद्रयानुरागस्य स्फुरन्महाहारमरीचिचक्रवालानि चाम१. प्रतौ 'शारीरिक' इति पाठः / 2. अतः परं पत्रे नष्टे हर्षचरितादुद्धृतोऽयं सन्दर्भः / 10
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy