________________ प्रलोकः 12] गीतगोबिन्दकाव्यम् ...हे-केशव / धृतकल्किशरीर / धृतं कल्किशरीरं येन: तस्य संबोधने / त्वं किमपि अद्भुतं यथा स्यात्तथा करवालं खड्गं कलयसि धारयसि / कस्मिन् निमित्ते म्लेच्छनिवहनिधने / म्लेच्छानां पापिष्ठानां निवहः व्यूहः / तस्य निधनं विनाशस्तस्मिन् / किंभूतम् / करालं भयङ्करम् / कमिव / धूमकेतुमिव / . श्रीजयदेवेत्यादि श्रीजयदेवकवेरिदमुदितमुदारं शृणु सुखदं शुभदं भवसारम् / केशव धृतदशविधरूप जय जगदीश हरे // 11 // हे पण्डितजन श्रीजयदेवकवेः उदितं उदारं सुन्दरं त्वं शृणु / किंभूतम् / सुखदं श्रुतिमात्रेण / पुनः किंभूतम् / शुभदं कल्याणदम् / पुनः किंभूतम् / भवसारम् / भवे संसारे सारभूतम् / गीतार्थ श्लोकेन गृह्णाति / वेदानित्यादिवेदानुद्धरते जगन्निवहते भूगोलमुविभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते / पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः // 12 // हे देव! तुभ्यं नमः / नमस्कारोऽस्तु / किंभूताय तुभ्यम् / कृष्णाय। “कृषि वाचकः शब्दो नश्च निवृतिवाचकः / तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते // " तस्मै परब्रह्मणे कृष्णाय / पुनः कथंभूताय / मायावशेन दशाकृतिकृते। दश च ता आकृतयः शरीराणि च ताः करोतीति दशाकृतिकृत् तस्मै / दशाकृतित्वं प्रतिपादयति / पुनः किंभूताय / उद्धरते। *उद्धरतीति उद्धरन् तस्मै / कान् / वेदान् / पुनः किंभूताय / वहते / वहतीति वहन् तस्मै / कानि / जगन्ति लोकान् / पुनः किंभूताय / उद्बिभ्रते / उद्बिभ्रतीति उद्विभ्रन् तस्मै / किम् / भूगोलं पृथ्वीम् / पुनः किंभूताय / दारयते दारयतीति दारयन् तस्मै। कम् / दैत्यम् / हिरण्यकशिपुम् / पुनः किंभूताय / छलयते / छलयतीति छलयन् तस्मै / कम् / बलिम् / पुनः किंभूताय / कुर्वते / करोतीति कुर्वन् तस्मै / कम् / क्षत्रक्षयम् / पुनः किंभूताय / जयते / जयतीति जयन् तस्मै / कम् / पौलस्त्यं रावणम् / पुनः किंभूताय / आतन्वते / आतनोतीति आतन्वन् तस्मै / किम् / कारुण्यम् / पुनः किंभूताय / मूर्च्छयते / मूर्च्छ1) B समूहः / 2) भवसागरे / 3) P and A drop पुनः कथंभूताय / 4) B drops this as well as other etymological explanations in this portion of the commentary.