________________ - सटिप्पणकम् [सर्गः१; हे केशव / धृतरघुपतिरूप / धृतं रघुपतेः 1श्रीरामस्य रूपं येन स तथा तस्य संबोधनम् / हे धृतरघुपतिरूप / त्वं रणे संग्रामे दिक्षु आशासु दशमुखमौलिबलि वितरसि ददासि / दशमुखानि यस्य तस्य मौलयः मूर्धानः स एव बलिः पूजोपहारस्तम् / किंभूतम् / दिक्पतिकमनीयम् / दिशां पतयः इन्द्रादयः तेषां कमनीयं अभिलषणीयं तम् / पुनः किंभूतम् / रमणीयं शोभनम् / . वहसीत्यादि वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् / केशव धृतहलधररूप जय जगदीश हरे // 8 // हे केशव / धृतहलधररूप / धृतं हलधरस्य बलभद्रस्य रूपं येन स तथा / तस्य संबोधने हे धृतहलधररूप / त्वं विशदे निर्मले वपुषि शरीरे वसनं दुकूलं वहसि / किंभूतं वसनम् / जलदाभम् / जलदो नीलमेघः तस्य आमेव आमा दीप्तिर्यस्य तत्तथा / पुनः किंभूतम् / हलहतिभीतिमिलित यमुनाभम् / हलेन हतिः हननं तस्याः भीतेर्भयात् मिलिता आगता सा चासो यमुना च तस्याः आमेव आभा दीप्तिर्यस्य तत्तथा / निन्दसीत्यादि निन्दसि यज्ञविधेरहह श्रुतिजातं सदयहृदयदर्शितपशुघातम् / केशव धृतबुद्धशरीर जय जगदीश हरे // 9 // हे केशव / धृतबुद्धशरीर / धृतं बुद्धस्य शरीरं येन तस्य संबोधनम् / हे धृतबुद्धशरीर / त्वं श्रुतिजातं वेदार्थतत्त्वं निन्दसि / कस्य / यज्ञविधेः यज्ञानां विधिषिधानं तस्य / किंभूतम् / दर्शितपशुघातम् / दर्शितः पशुधातो मारणं येन तत्तथा तत् / अथवा किंभूतं श्रुतिजातम् / सदयहृदयदर्शितपशुपातम् / सदयहृदया ब्राह्मणाः तेषां दर्शितः पशुधातो मारणं येन तत्तथा तत् / कथं निन्दसि / अहहेति खेदे / गवादिपशुघातं धिगिति / तस्य संबोधने / बौद्धागमशास्त्र अहिंसा परमो धर्म इति न्यायात् / म्लेच्छनिवहेत्यादि म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् / केशव धृतकल्किशरीर जय जगदीश हरे // 10 // 1) B रामचन्द्रस्य / 2) B दिशासु / 3) A यस्य मौलयः, B यस्य समौलय मूर्धानः /