SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 48] सटीके निघण्टुशेषे [श्लो० ८३आमलक्यां शिवा धात्री वयःस्था षड्रसाऽमृता। पर्वकीटा तिष्यफला माकन्दी श्रीफला च सा // 8 // आ-समन्ताद् मलते-धारयति गुणान् आमलकी, 'कीचक-पेचक-" [हैमोणादि सू० 33] इत्यके निपात्यते, त्रिलिङ्गोऽयम्, तस्याम् / शेरते गुणा अस्यां शिवा, "शीङापो 5 हस्वश्च वा” हैमोणादिसू० 506 ] इति वः / दधाति गुणान् धात्री, तृजन्ताद् ङीः / वयःस्था रसायनत्वात् / षड् रसाः सन्ति अत्र षडरसा। नास्ति मृतमस्या अमृता / पर्वणि कीटाः अस्याः पर्वकीटा / तिष्यं–मङ्गल्यं फलमस्त्यस्याः तिष्यफला, "नित्यमामलके लक्ष्मीः" इति / माकन्द्याः फलं माकन्दी, अभेदोपचारात् , “दोरप्राणिनः" [ सिद्ध० 6.2.49] इति मयट् . “फले" [ सिद्ध 0 6.2.58 ] इति 10 तस्य लुप् , हरीतक्यादित्वात् स्त्रीत्वम्, गौरादित्वाद् ङीः / श्रीप्रदं फलमस्याः श्रीफला / आह च वयःस्थाऽऽमलकं तिष्यं जातीरसफलं शिवम् / धात्रीफलं श्रीफलं च तच्चामृतफलं स्मृतम् // ] इति / 15 एतस्य लोके 'आमला' इति प्रसिद्धिः // 83 // अरणावग्निमन्थः स्यात् तर्कारी वैजयन्तिका / जया जयन्ती श्रीपर्णी कणिका गणकारिका // 4 // तेजोमन्थो हविर्मन्धो नादेयी वह्निशोधनः। इयर्ति वह्निरस्मिन् अरणिः, "ऋ-ह-सृ-" [हैमोणादिसू० 638] इत्यणिः, 20 पुं-स्त्रीलिङ्गः, तत्र / अग्निं मथ्नाति दीपनत्वाद् अग्निमन्थः। तर्कमियर्ति तर्कारी, केतुत्वात् / विजयते विजयन्तः, तृ-जि-भू-वदि-" [ हैमोणादिसू० 221] इति अन्तः, तस्येयं वैजयन्ती, "तस्येदम् " [ सिद्ध 0 6.3.160 ] इत्यण् , “अणजेये-" [ सिद्ध 0 2.4.20 ] इति ङीः, स्वार्थिक के वैजयन्तिका / जयतीति जया, अच्, “तृ-जि भू-वदि-" [हैमोणादिसू० 221 ] इत्यन्ते जयन्ती, टित्त्वाद् ङीः / श्रीः पर्णे यस्याः 25 सा श्रीपर्णी, क्लीबेऽयमित्यन्ये / यदमरः श्रीपर्णमग्निमन्थः स्यात् / [का० 2 वर्ग 4 श्लो० 66] इति / कणाः सन्त्यस्याः कणिका, “अतोऽनेकस्वरात्" [ सिद्ध 0 7.2.6 ] इतीकः / 1 पर्वकाढया तिष्य' नि० // 2 °न्ती नादेयी श्रीपर्णी गणिका नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy