SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 158 सटीक निघण्टुशेषे - [प्रलो० २९०मूलः / पाण्डुरमङ्गमस्य पाण्डुराङ्गः। प्रीणाति प्रियः, “नाम्युपान्त्य-" [सिद्ध 0 5.1.54 ] इति कः / “कुल बन्धु-सन्तानयोः" कोलति "कुलः, "नाम्युपान्त्य-" [सिद्ध 0 5.1.54 ] इति कः / आह च बुको वसुक इत्युक्तः शिवाङ्कः शिवशेखरः / महापाशुपतश्चैव सुव्रतः शिवमल्लिका / / [धन्व० वर्ग 4 श्लो० 19 ] इति / एतस्य लोके 'बूअ' इति प्रसिद्भिः // 289 // अतिविषायां तु विश्वा भङ्गरा श्वेतकन्दिका / उपविषा श्यामकन्दा शृङ्गी प्रतिविषा विषा // 290 // अतिक्रान्ता विषाद् अतिविषा, तस्याम् / “विशंत् प्रवेशने" विशति अन्तः विश्वा, "निघृषि-" [ हैमोणादिसू० 511] इति किद् वः / भज्यते इत्येवंशीला भङ्गरा, "भञ्जि-भासि-मिदो घुरः" [सिद्ध 0 5. 2.74] इति घुरः / श्वेतः कन्दोऽस्याः श्वेतकन्दा, स्वार्थिक के श्वेतकन्दिका। उप–समीपे विषमस्या उपविषा / श्यामः कन्दोऽस्याः श्यामकन्दा / "शृङ्गयुक्तत्वात् शृङ्गी" इति क्षीरस्वामी / "शृणाति रोगान् शृङ्गी" 15 इत्यपरे, "शृङ्ग-शाङ्गादयः" [ हैमोणादिसू० 96 ] इति गे निपात्यते, गौरादित्वाद् ङीः / प्रतीपा विषस्य प्रतिविषा, अगदत्वात् / वेवेष्टि विषा / आह च अतिविषा शुक्लकन्दा ज्ञेया विश्वा च भङ्गुरा / श्यामकन्दा प्रतिविषा शृङ्गी चोपविषा विषा // [धन्व० वर्ग 1 श्लो० 10 ] इति / 20 एतस्या लोके 'अतिविसु' इति प्रसिद्धिः // 290 // मेदायां स्यान्मणिच्छिद्रा मधुरा शालपर्ण्यपि / मणीनां छिद्रमस्या मणिच्छिद्रा / मधु विद्यते अस्या मधुरा, "मध्वादिभ्यो र." [सिद्ध 0 7.2.26 ] इति रः; माद्यति अनया वा, * "श्वशुर-कुकुन्दुर-" [हैमो25 णादिसू० 426 ] इत्युरे निपात्यते / शाल इव पर्णान्यस्याः शालपर्णी, “पाककर्ण-पर्ण-" [ सिद्ध 0 2.4.55] इति ङीः / महामेदायां तु वसुच्छिद्रा देवमणिर्वसुः // 29 // // इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे द्वितीयो गुल्मकाण्डः // 2 // 1 विषाऽरुणा नि०॥
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy