________________ 10 156] प्रथमो वृक्षकाण्डः। एरण्डस्तरुणः शुक्लश्चित्रो गन्धर्वहस्तकः / पञ्चाङ्गुलो वर्धमान आरण्डो दीर्घदण्डकः // रक्तोऽपरो हस्तिकर्णः कर्णो व्याघ्रतलो रुचुः / उरुवूको हस्तिपर्णश्चञ्चुरुत्तानपत्रकः // ] इति / एतस्य लोके 'एरंड' इति प्रसिद्धिः // 154 // किम्पाके तु महाकालः काकः काकमर्दकः। कुत्सितः-प्राणहरः पाकः-परिणामोऽस्य विषवृक्षत्वात् किम्पाकः, तत्र / मेहांश्चासौ कालश्च महाकालः / “अर्द गति-याचनयोः” काकम् अर्दति काकदः, पृषोदरादित्वात् / काकं मर्दयति काकमर्दकः / / कोम्पिल्यके तु कपिलो रक्ताङ्गो रक्तचूर्णकः // 15 // चन्द्रायो रेचैनकः कर्कशाह्नः पँटोदकः / / कम्पिलदेशे भवः काम्पिल्यः, भवेऽर्थे यण् , स्वार्थिके के काम्पिल्यकः, तत्र / “कवृड् वर्णे" कवते कपिलः, “स्थण्डिल-कपिल-" [ हैमोणादिसू० 484 ] इतीले निपात्यते; कपिलवर्णत्वाद् वा / रक्तमङ्गमस्य रक्ताङ्गः / रक्तं चूर्णमस्य रक्त- 15 चूर्णः, [स्वार्थिक ] के रक्तचूर्णकः // 155 // चन्द्रस्य आह्वयोऽस्य चन्द्रायः, तेन चन्द्रः, ह्रादनत्वात् / रेचयति रेचनः, स्वार्थिके के रेचनकः। कर्कश इत्याह्वाऽस्य ककेशाहः। पटे उदकमस्य पटोदकः / यदाह काम्पिल्यकोऽथ रक्ताङ्गो रेची रेचनकस्तथा / रजनो लोहिताङ्गश्च कर्कशो रक्तचूर्णकः // __] इति / इन्दुरपिकर्कशाख्यः करम्भः स्यात् स काम्पिल्यः पटोदकः / .. ] इति / एतस्य लोके 'कंपीलउ' इति प्रसिद्धिः / 1 “महान् कालः-मृत्युरस्माद् महाकालः” इत्यभिधानचिन्तामणिस्वोपज्ञटीकायाम् // 2 कम्पिल्लंके तु काम्पिल्लो रक्ता नि० // 3 रोचनकः नि०॥ 4 पटोदयः नि० // 20