________________ 152] प्रथमो वृक्षकाण्डः। .. दधाति धातकी, 'लेष्मातक-" [ हैमोणादिसू० 83 ] इत्यातके निपात्यते, तत्र / धातुवद् रक्तानि पुष्पाण्यस्या धातुपुष्पी, " असत्काण्ड-प्रान्त-शतैकाश्चः पुष्पात्" [ सिद्ध 0 2. 4. 56 ] इति ङीः / बर्हिरिव-वह्निरिव पुष्पाण्यस्या बर्हिपुष्पी / अग्निरिव पुष्पाण्यस्या अग्निपुष्पी, "असत्काण्ड-प्रान्त-शतैकाञ्चः पुष्पात्" [ सिद्ध० 2. 4. 56 ] इति ङीः, स्वार्थिके के अग्निपुष्पिका / ताम्रवर्णानि पुष्पाण्यस्याः / ताम्रपुष्पी, प्राग्वद् ङीः / मुभिक्षा सुलभा / कौ-पृथिव्यां जीर्यति कुजरा, पृषोदरादित्वात् / मद्यस्य पाचनी मद्यपाचनी / आह च धातकी ताम्रपुष्पी च कुञ्जरा मद्यपाचनी / पार्वतीया सुभिक्षा च वह्निपुष्पी च शब्दिता // ] इति / 10 एतस्य लोके 'धाहुडी' इति प्रसिद्भिः // 150 // सल्लक्यां वल्लकी हादा सुवहा सुरवा रसा / अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा // 15 // गन्धवीरा गन्धकारी सुरभिर्वनकर्णिका। सल्लिः सौत्रः, सल्लति सल्लकी, “द-कृ-न-सृ--" [ हैमोणादिसू० 27] इत्यादि- 15 ना अकः; सत्कृत्य लक्यते-स्वाद्यते गजैरिति वा, तस्याम् / “वल्ल संवरणे" वल्लते वल्लकी, " दृ-कृ-न-सृ-” .[ हैमोणादिसू० 27 ] इत्यकः / हादा सन्त्यस्यां हादा, अभ्रादित्वादः / सुष्टु वहति सुवहा, अच् / “सुष्टु स्रवति सुस्रवा” इति वैद्याः। रस्यते-आस्वाद्यते गजैः रसा / अश्वस्य मूत्रमस्या अश्वमूत्री / कुं-पृथ्वीं यति कुन्दुरुः, " शिग्रु-गेरु-नमेर्वादयः" [ हैमोणादिसू० 811] इति रुप्रत्यये निपात्यते, 30 स्वार्थिके के कुन्दुरुकी / गजैर्भक्ष्यते गजभक्षा / महद् ईरणमस्या महेरणा // 151 // गन्धेन वीरा गन्धवीरा / गन्धं करोति गन्धकारी / “रभुङ् शब्दे" सुष्टु रम्भते सुरभिः, “पदि-पठि" [ हैमोणादिसू० 607] इति बहुवचनादिः, " आगमशासनमनित्यम्” इति न्यायाद् नागमाभावः / वनस्य कर्णिकेव वनकर्णिका / आह च 1. अश्वमूर्तिः कुन्दरुकी गजभक्ष्या नि० //