________________ न्यायदर्शने वात्स्यायनभाष्यात् सुखसंवेदनहेतोः प्रतिबन्धकः, तेनाविशेषो नास्तीति / एतच्चायुक्तम्, शरीरादय उपभोगार्थास्ते भोगप्रतिबन्धं करिष्यन्तीत्यनुपपन्नम्, न चास्त्यनुमानमशरीरस्यात्मनो भोगः कश्चिदस्तीति / इष्टाधिगमार्था प्रवृत्तिरिति चेत् ? न, अनिष्टोपरमार्थत्वात् / इदमनुमानम्इष्टाधिगमार्थो मोक्षोपदेशःप्रवृत्तिश्च मुमुक्षूणां, नोभयमनर्थकमिति / एतच्चायुक्तम्, अनिष्टोपरमार्थो मोक्षोपदेशः प्रवृत्तिश्च मुमुक्षूणामिति / नेष्टमनिष्टेनाननुविद्धं सम्भवतीति इष्टमप्यनिष्टं सम्पद्यते, अनिष्टहानाय घटमान इष्टमपि जहाति, विवेकहानस्याशक्यत्वादिति / दृष्टातिक्रमश्च देहादिषु तुल्यः / यथा दृष्टमनित्यं सुखं परित्यज्य नित्यं सुखं कामयते, एवं देहेन्द्रियबुद्धीरनित्या दृष्टा अतिक्रम्य मुक्तस्य नित्या देहेन्द्रियबुद्धयः कल्पयितव्याः, साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति / .. उपपत्तिविरुद्धमिति चेत् ? समानम् / देहादीनां नित्यत्त्वं प्रमाणविरुद्धं कल्पयितुमशक्यमिति ? समानं सुखस्यापि प्रमाणविरुद्धं कल्पयितुमशक्यमिति / आत्यन्तिकं च संसारदुःखाभावे सुखवचनादागमेऽपि सत्यविरोधः यद्यपि कश्चिदागम: स्यात् मुक्तस्यात्यन्तिकं सुखमिति ? सुखशब्द आत्यन्तिके दु:खाभावे प्रयुक्त इत्येवमुपपद्यते, दृष्टो हि दु:खादेरभावे सुखशब्दप्रयोगो बहुलं लोक इति / नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावो रागस्य बन्धनसमाज्ञानात् / यद्ययं मोक्षो नित्यं सुखमभिव्यज्यत इति ? नित्यसुखरागेण मोक्षाय घटमानो न मोक्षमधिगच्छेत्, नाधिगन्तुमर्हतीति / बन्धनसमाज्ञातो हि रागः / न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यत इति / प्रहाणे नित्यसुखरागस्याप्रतिकूलत्वम् / अथास्य नित्यसुखरागः प्रहीयते, तस्मिन्प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवति ? यथैवं, मुक्तस्य नित्यं सुखं भवति, अथाऽपि न भवति, नास्योभयोः पक्षयोर्मोक्षाधिगमो विकल्पत इति / ऋणक्लेशप्रवृत्तिभिः अपवर्गस्यानुपपत्तिशङ्का ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः // 59 // ऋणानुबन्धात्रास्त्यपवर्गः। "जायमानो ह वै ब्राह्मणस्त्रिभि (@णै) ऋणवान्