SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 162 गद्यसंग्रहः निर्वाणे निषिद्धे तदौपयिकबुद्धदेशनायाः धर्मसत्त्वादीनां ___ वस्तुतोऽसत्त्वेन वैयर्थ्यशङ्कानिरासः यदि एवं भवता निर्वाणमपि प्रतिषिद्धम्, ननु च य एष भगवता अनन्तचरितसत्त्वराश्यनुवर्तकेन विदिताविपरीतसकलजगदाशयस्वभावेन महाकरुणापरतन्त्रेण प्रियैकपुत्रकप्रेमानुगताशेषत्रिभुवनजनेन चरितप्रतिपक्षानुरूपो धर्मो देशितो लोकस्य निर्वाणाधिगमार्थम्, स एव सति व्यर्थ एव जायते। उच्यतेयदि कश्चिद्धर्मो नाम स्वभावरूपतः स्यात्, केचिच्च सत्त्वास्तस्य धर्मस्य श्रोतारः स्युः, कश्चिद्वा देशिता बुद्धो भगवन्नाम भावस्वभावः स्यात्, स्यादेतदेवम्। यदा तु सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः। न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः // तदा कुतोऽस्माकं यथोक्तदोषप्रसङ्गः? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमोऽप्रवृत्तिस्तन्निर्वाणम्। स एव चोपशमः प्रकृत्यैवोपशान्तत्वाच्छिवः। वाचामप्रवृत्तेर्वा प्रपञ्चोपशमश्चित्तस्याप्रवृत्तेः शिवः। क्लेशानामप्रवृत्त्या वा जन्मनोऽप्रवृत्त्या शिवः। श्लेशप्रहाणेन वा प्रपञ्चोपशमो निरवशेषवासनाप्रहाणे शिवः। ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिवः। यदा चैवं बुद्धा भगवन्तः सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवेऽस्थानयोगेन नभसीव हंसराजाः स्थिताः स्वपुण्यज्ञानसंभारपक्षपातवाते वातगमने वा गगनस्याकिंचनत्वात्, तदा सर्वनिमित्तानुपलम्भान्न क्वचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्मः सांक्लेशिको वा वैयवदानिको वा देशित इति विज्ञेयम्। यथोक्तमार्यतथागतगुह्यसूत्रे-"यां च रात्रिंशान्तमते तथागतोऽनुत्तरांसम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अत्रान्तरे तथागतेनैकमप्यक्षरं नोदाहृतं न व्याहृतं नापि प्रत्याहरति नापि प्रव्याहरिष्यति। अथ च यथाधिमुक्ताः सर्वसत्त्वा नानाधात्वाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति / तेषामेवं पृथक पृथग्भवति-अयं भगवानस्मभ्यमिमं धर्म देशयति, वयं च तथागतस्य धर्मदेशनां शृणुमः। तत्र तथागतो न कल्पयति न विकल्पयति। सर्वकल्पविकल्पजालवासना प्रपञ्चविगतो हि शान्तमते तथागतः।"
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy