________________ बौद्धदर्शने तत्त्वसंग्रह-प्रथमभागात् 141 नापि शब्दमात्रमर्थप्रतिपादनसामर्थ्यशून्यम्, अतो नाभिधेयादिगतं प्रयोजनमुपदर्शनीयम्। यत्पुनराचार्येण 'सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि' (न्या० वि० 1-1) इति यत् प्रयोजनं निर्दिष्टम्, तत् प्रयोजनप्रयोजनस्य कथनम्, नाभिधेयस्य प्रयोजनम्, सम्यग्ज्ञानव्युत्पत्तेरे व सम्यग्ज्ञानशब्देन विवक्षितत्वात्। सम्यग्ज्ञानव्युत्पत्तिपूर्विकेत्यर्थः। एवं सति तन्निर्दिष्टमित्येतत्प्रयोजनाभिधानं सङ्गतार्थं भवेत्, अन्यथा दुःश्लिष्टमेव स्यात्। तच्च प्रयोजनं शास्त्रस्य त्रिविधम्-क्रियारूपम्, क्रियाफलम्, क्रियाफलस्य फलम्। तथा हि-शास्त्रस्य परप्रतिपादनायारभ्यमाणस्य कारणत्वं वा भवेत्, कर्तृत्वं वा, कर्तृकरणयोश्च साधनत्वान्न यथोक्तप्रयोजनव्यतिरिक्तं प्रयोजनमस्ति, क्रियापेक्षत्वात् साधनस्यात्रिविधस्यापिच क्रियादेस्तदविनाभावित्वात्तत्प्रयोजनत्वं युक्तमेव।साक्षात्पारम्पर्यकृतस्तु विशेषः। फलाख्यं तु प्रयोजनं प्रधानम्, तदर्थत्वात् क्रियारम्भस्य। तत्र सर्ववाक्यानां स्वाभिधेयप्रतिपादनलक्षणा क्रिया साधारणा, सा चातिप्रतीतया न प्रयोजनत्वेनोपदर्शनीया, तस्यां शास्त्रस्य व्यभिचाराभावात्। अनभिधेयत्वाशङ्काव्युदासार्थमुपदर्शनीयेति चेत्? न, अभिधेयकथनादेव तदाशङ्काया व्युदस्तत्वात्। नाप्यभिधेयविशेषप्रतिपिपादयिषया तदुपदर्शनम्, अभिधेयविशेषकथनादेव तस्य प्रतिपादितत्वात्। तस्मादसाधारणा या क्रिया सोपदर्शनीया। सा त्वस्य शास्त्रस्य विद्यत एव तत्त्वसंग्रहलक्षणा, यतोऽनेन शास्त्रेण तेषां तत्त्वानामिततस्ततो विप्रकीर्णानामेकत्रबुद्धौ विनाभिवेशलक्षणः संग्रहः क्रियते, अतस्तामेव संग्रहशब्देन दर्शितवान्। अनन्तैः गुणैः भगवतः स्तोतुमशक्यतया गुणविशेषेणैव स्तोतव्यः, स च प्रकृते प्रतीत्यसमुत्पाददेशनयैव। अथापरिमितगुणगणाधारे भगवति किमिति प्रतीत्यसमुत्पाददेशनयैव स्तोत्राभिधानम्? तदेतदचोद्यम्, सर्वत्रैव तुल्यपर्यनुयोगत्वात्। न च शक्यमपरिमितगुणोद्भावनया पूजाभिधानं कर्तुमिति गुणैकदेशोद्भावनयैव सा विधेया। तेन प्रतीत्यसमुत्पाददेशनोद्भावनया वा सा विहिता, अन्यथा वेति न कश्चिद्विशेषः।