________________ जैनदर्शनेस्याद्वादमञ्जरीतः 139 वरं वृन्दावने रम्ये क्रोष्टत्वमभिवाञ्छितम् / म तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति // सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिकं तद्विपरीतानन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः। यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण। संसार एव वरमस्तु। यत्र तावदन्तरान्तरापि दुःखकलुषितमपि कियदपि मुखमनुभुज्यते। चिन्त्यतां तावत् किमल्पसुखानुभवो भव्य उत सर्वसुखोच्छेद एव। अथास्ति तथाभूते मोक्षे लाभातिरेक: प्रेक्षादक्षाणाम्। ते ह्येवं विवेचयन्ति। संसारे तावद् दुःखास्पृष्टं सुखं न सम्भवति, दु:खं चावश्यं हेयम्, विवेकहीनं चानयोरेकभाजनपतितविषमधुनोरिव दुःशकम्, अत एव द्वे अपि त्यज्येते। अतश्च संसाराद् मोक्षः श्रेयान्। यतोऽत्र दुःखं सर्वथा न स्यात्। वरमियती कादाचित्कसुखमात्रापि त्यक्ता, न तु तस्याः दुःखभार इयान् व्यूढ इति। तदेतत्सत्यम्। सांसारिकसुखस्य मधुदग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुक्षूणां तजिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्सूनामेव। इहापि विषयनिवृत्तिजं सुखमनुभवसिद्धमेव, तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः। ये अपि विषमधुनी एकत्र सम्पृक्ते त्यज्येते, ते अपि सुखविशेषलिप्सयैव। किञ्च, यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्टम्, तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्दैव। ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र प्रवृत्तिः स्यात्। भवति चेयम्। ततः सिद्धो मोक्षः सुखसंवेदनस्वभावः प्रेक्षावत्प्रवृत्तेरन्यथानुपपत्तेः। अथ यदि सुखसंवेदनैकस्वभावो मोक्षः स्यात् तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत्। न हि रागिणां मोक्षोऽस्ति रागस्य बन्धनात्मकत्वात्। नैवम् सांसारिकसुखमेव रागोबन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वात्। मोक्षसुखे तु रागः तन्निवृत्ति हेतुत्वाद् न बन्धनात्मकः। परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते 'मोक्षेभवे च सर्वत्र नि:स्पृहो मुनिसत्तमः' इति वचनात्। अन्यथा भवत्पक्षेऽपि दु:खनिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायकालुष्यं केन निषिध्येत। इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मको मोक्षो, न बुद्धयादिविशेषगुणोच्छेदरूप इति।