________________ जैनदर्शनेस्याद्वादमञ्जरीतः 137 श्रीवर्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासम्बन्धः। किं विशिष्टम्? अनन्तम्-अप्रतिपाति,वि-विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, ज्ञानं-केवलाख्यं विज्ञानम्,ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम्। तथा अतीता:- नि:सत्ताकोभूतत्वेनातिक्रान्ताः,. दोषारागादयो यस्मात् स तथा तम्। तथा अबाध्यःपरै बोधितुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणो यस्य स तथा तम्। तथा अमर्त्या :- देवाः, तेषामपि पूज्यम्-आराध्यम्॥ अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः। तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानानन्त्यप्रतिपादनाद् ज्ञानातिशयः। अतीतदोषमित्यनेनाष्टादशदोषसंक्षयाभिधानाद् अपायापगमातिशयः। अबाध्यसिद्धान्तमित्यनेन कुतार्किकोपन्यस्तकुहेतुसमूहाशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद् वचनातिशयः। अमर्त्यपूज्यमित्यनेनाकृत्रिमभक्तिभरनिर्भरसुरासुरनिकायनायकनिर्मितमहाप्रातिहार्य सपर्यापरिज्ञानात् पूजातिशयः। अत्राह परः। अनन्तविज्ञानमित्येतावदेवास्तु, नातीतदोषमिति। गतार्थत्वात्। दोषात्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः। अत्रोच्यते। कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थमिदम्। तथा चाहुराजीविकनयानुसारिणः - ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् / गत्वाऽगच्छन्ति भयोऽपि भवं तीर्थनिकारतः // इतिः तन्नूनं न तेऽतीतदोषाः। कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतारः। आह। यद्येवमतीतदोषमित्येवास्तु, अनन्तविज्ञानमित्यतिरिच्यते। दोषात्ययेऽवश्यंभावित्वादनन्तविज्ञानत्वस्य / न। कैश्चिद्दोषाभावेऽपि तदनभ्युपगमात्। तथा च वैशेषिकवचनम्: सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु / कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते // तथा तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् / प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे //