SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मीमांसा-शाबर-भाष्यात् 115 संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः। तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशंक्तिभेदादाधाराधेयनियम इति। सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात्। यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तम् तथा समवायोऽपीति। न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यते इति। कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते। न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात्। नापि समवायस्तस्यैकत्वात् न चान्या वृत्तिरस्तीति। न तादात्म्यात्। यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति। एवमविभागिनो वृत्त्यात्मकापत्तिः अत एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषुवृत्यभावात्स्वात्मगतसंवेदनाभावाश्चातस्मादिहबुद्ध्यनुमेयः समवाय इति। मीमांसादर्शने-मीमांसा-शाबर-भाष्यात वेदमधीत्य समावर्तनात्पूर्वधर्मो जिज्ञासितव्यः लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यम्, नाध्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा। एवं वेदवाक्यान्येवैभिर्व्याख्यायन्ते, इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश्च व्याख्येया इति प्रयत्नगौरवं प्रसज्येत। तत्र लोकेऽयम् अथ शब्दो वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः। न चेह किंचिद् वृत्तमुपलभ्यते, भवितव्यं तु तेन, यस्मिन् सत्यनन्तरं धर्मजिज्ञासाऽवकल्पते। तथाहि प्रसिद्धपदार्थकः स कल्पितो भवति। तत्तु वेदाध्ययनम्। तस्मिन् हि सति सोऽवकल्पते। नैतदेवम्, अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा युक्ता, प्रागपि च वेदाध्ययनात्। उच्यते-तादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न संभवति। कथम्? वेदवाक्यानामनेकविधो विचार इह वर्तिष्यते। अपि च, नैव वयमिह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्यः, परस्ताच्चाऽऽनन्तर्यम्। नह्येतदेकवाक्यं पुरस्ताच्च वेदाध्ययनात् धर्मजिज्ञासां प्रतिषेधिष्यति, परस्ताच्चाऽऽनन्तर्यं प्रकरिष्यति। भिद्येत हि तथा वाक्यम्। अन्यथा
SR No.032740
Book TitleGadyasangraha
Original Sutra AuthorN/A
AuthorBadrinath Shukla, Jayant Mishra
PublisherSahitya Academy
Publication Year1996
Total Pages222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy