________________ न्यायमञ्जरीतः 109 सोमग्रहणाभ्यासानां समस्तानां क्रमभाविनां चैकप्रधाननिर्वर्तकत्वं दृष्टमित्यतश्च नायं विरोधः सामस्त्यं च क्रमभावित्वं चेति, एवं क्रमवर्तिनोऽपि वर्णा एवार्थाभिधायिनो भविष्यन्ति। वाक्यार्थबोधोपपादनम् :__ आह यदीमाः सर्वा एव तान्त्रिकरचिताः कल्पना न साधीयस्यश्चेदात्मीया काचन निर्दोषा साध्वी कल्पना निवेद्यताम्, उच्यते न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं क्षमाः न हीयं कविभिः पूर्वेरदृष्टं सूक्ष्मदर्शिभिः / शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी // कस्तर्हि विद्वन्मतितर्कणीयग्रन्थोपबन्धे तव दोहदोऽयम् / न दोहदः पर्यनुयोगभूमिः परोपदेशश्च न तस्य शान्तिः // राज्ञा तु गहरेऽस्मिन्नशब्दके बन्धने विनिहतोऽहम् / ग्रन्थरचनाविनोदादिह हि मया वासरा गमिताः // तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति, उच्यते, चिरातिक्रान्तत्वमचिरातिक्रान्तत्वं वा न स्मृतिकारणं संस्कारकरणकं हि स्मरणं भवति तच्च सद्यःप्रलीने चिरप्रलीने वा न विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहितानामपि व्यवहितोच्चारितानामपि संस्कारात्स्मरणं भविष्यति अन्त्यपदस्यानुभूयमानत्वोपगमे ज्ञानयोगपद्यादिप्रमादप्रसङ्ग इति वरमन्त्यपदमपि स्मर्यमाणमस्तु, स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति, तत्र चेयं कल्पना वर्णक्रमेण तावत्प्रथमपदज्ञानं ततः संकेतस्मरणं संस्कारश्च युगपद्भवतः, ज्ञानयोहि यौगपद्यं शास्त्रे प्रतिषिद्धं न संस्कारज्ञानयोः, ततः पदार्थज्ञानं तेनापि संस्कारः पुर्ववर्णक्रमेण द्वितीयपदज्ञानं ततः संकेतस्मरणं पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः पुनः पूर्ववर्णक्रमेण तृतीयपदज्ञानं संकेतस्मरणं पूर्वसंस्कारापेक्षः पटुतरः संस्कार इत्येवं पदज्ञानजनिते पीवरे संस्कारे पदार्थज्ञानजनिते च तादृशि संस्कारे स्थितेऽन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात्सर्वपदविषयस्मृतिः पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कार क्रमात्क्रमेण द्वे स्मृती भवतः, तत्रैकस्यां स्मृतावुपारूढः पदसमूहो वाक्यमितरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः /