________________
५२
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
= व्यंसना स्यात् । तत्र कथम् ? इत्याशङ्क्याह- दृष्टान्तौ तत्रैतौ द्वौ 'चंद्रोदयं चे' (गा०२३४) त्यादि वक्ष्यतीति गाथासमासार्थः ॥ २१२ ॥ अधुना अवयवार्थ उच्यते
जह वंतं तु अभोज्जं भत्तं जं पि य सुसक्कयं आसि । एवमसंजमवमणे अणेसणिज्जं अभोजं तु ॥ २१३ ॥
जह गाधा। व्याख्या– यथा वान्तं = भुक्तोज्झितं तुशब्दाद् व्युत्सृष्टं वा अभोज्यं = अभक्षणीयं भवति भक्तं = अशनादि यदपि च सुसंस्कृतं = राजिकादिभिर्विशेषमापादितं पूर्व्वमासीत्, एवमसंयमवमने, किम् ? अनेषणीयं अभोज्यमेवेति गाथार्थः ॥ २१३ ॥
मज्जारखइयमंसा मंसासित्थि कुणिमं सुणगवंतं ।
वण्णाति अण्णउप्पाइयं पि किं तं भवे भोजं ॥ २९४ ॥
मज्जार० गाहा। व्याख्या - मांसासि पाहुणाऽऽगमे मांसमुवणीयं । तं च अरद्धमेव मज्जारेण खइयं । ततो मर्जारभक्षितमांसा का ? मांसाशिनः स्त्री २ ( = मांसाशिस्त्री) इति समासः, किम् ? तद्भयादेव क्षिप्रमन्यद् अलभमाना कुणिमं सुणगवंतं माणुसमंसं साणणिग्गिलियं बालपुत्रकसमक्षं गृहीत्वा रन्धयतीति शेषः । वण्णादि अण्णउप्पादितं पि = शोभनाऽन्यवर्णाद्युत्पादितमपि किं तद् भवेद् भोज्यम् ? नैवेति गाथार्थः॥२१४॥ आदेशान्तरमाह - मार्जारभक्षितमांसमांसाशिस्त्री एतावत्यनुवर्त्तमान एव ।
केई भांति पहिए उट्ठाणा मंसपेसिवोसिरणं । संभारिय परिवढण वारेइ सुओ करे घेत्तुं ॥ २१५ ॥
=
केई भांति गाहा । व्याख्या- अण्णे भणंति 'पहिये उट्ठाणं' ति कप्पडियवइसावणाए, मंसपेसिवोसिरणं, गहणं, 'संभारित 'त्ति सम्भृतकरणम्, परिवढणं परिवेसणं लंबणगहणं च । एत्थंतरम्मिय विदितवुत्तंतो वारेइ सुतो करे घेत्तुं । ततश्च यथेदं अभोज्यं एवमाधाकर्म्माऽपीति गाथार्थः ॥ २१५ ॥ किञ्च
अमिला-करभीखीरं लसुण पलंडू सुरा य गोमंसं ।
वेयसमए वि य मयं किंचि अभोजं अपेज्जं च ॥ २१६ ॥
अमिला० गाधा। व्याख्या - अमिला = गड्डरा, करभी = उट्टी, एतासिं खीरं, लसुण, पलंडू सूराय गोमंसं, पलंडू = सागविसेसो, वेदसमए पि च निर्द्धर्म्मप्रणीते मतं अङ्गीकृतं किञ्चिद्
=
(टि०) १. परिवेसण जे४, भां० ॥ २. वेदसंमतेऽपि जि१ ॥ (वि०टि० ) . वीरगणेः मलयगिरिसूरेश्च मतेन "वेयसमए वि अमयं किंचि इति पाठः स्यात् । तथा च तद्वृत्तिः... वेदे यथायोगं शेषेषु च 'समयेषु' निर्द्धर्मप्रणीतेषु 'अमतम्' असम्मतं भोजने पाने च । तथा जिनशासनेऽपि किञ्चिदाधाकर्म्मिकादिरूपमभोज्यमपेयं च वेदितव्यम् । इति मलय० ।
वेदाः = ऋग्वेदादयो ब्राह्मणसम्बद्धाश्चत्वारशास्त्रविशेषाः, समयास्तु शेषदर्शनिनः सिद्धान्तास्तत्, तस्मिन्नपि न केवलं जिनशासने इत्यपिशब्दार्थः, अमतं = अग्राह्यतया अनभिप्रेतं, शिष्टानामिति शेषः ॥ इति वीरगणिवृत्तिः ॥