________________
१६०
॥ सवृत्तिपिण्डनियुक्तिः ॥ त्वमेवं ?। श्रुणु तावद्यथा अह्रीकोऽसि = निर्लज्जो भवसी"ति गाथार्थः॥६६७॥
तिबलागमुहम्मुक्को तिक्खुत्तो वलयामुहे।
तिसत्तक्खुत्तो जालेणं सइ छिण्णोदए दहे॥६६८॥ तिबलाग० सिलोगो। तिम्रो वारा बलाकाया मुखान्मुक्तः, कथम् ? बलाकया गृहीत्वोद्धं क्षिप्तस्तिर्यग् निपत्य तन्मुखाद् भ्रष्टः, तृतीयवारायां जले निपतितः। त्रिःकृत्वा(?त्वः) 'वलयामुहे'त्ति वेलामुखे कटकानुसारेणाऽहं निर्गतः। त्रिःसप्तकृत्वा(?त्वः) एकविंशतिवारा इत्यर्थः 'जालेण' त्ति जालाद् भ्रष्टः, कथम् ? यदा जालं धीवरः प्रक्षिपति तदा अहमधो गत्वा तिष्ठामि एवमेकविंशतिवारा जालाद् भ्रष्टोऽहमिति। सकृत् = एकां वारां च्छिन्नोदकें हृदे मात्सिकेन तीक्ष्णशलाकायां प्रोतेषु मत्स्येषु अहं स्वयमेव मत्सान्तराले वदनेन लगित्वा स्थितः, स च धीवरः कर्दमलिप्तान् तान् सरसि प्रक्षालयितुं गतः, तेषु च प्रक्षाल्यमानेषु अहं जलान्तर्निमग्न इति श्लोकार्थः॥६६८॥
एयारिसं ममं सत्तं सढं घट्टियघट्टणं।
इच्छसि गलेण घेत्तुं अहो ते अहिरीयया॥६६९॥ एयारिसं सिलोगो। ईदृशं मम सत्त्वं शठं घट्टियघट्टणं'त्ति घट्टितस्य = धीवरादिना कृतस्योपायस्य घट्टनं = चालनं यत् सत्त्वं तत्तथेति इच्छसि गलेन ग्रहीतुं मां अहो ! ते = तव निहींकता = निर्लज्जतेति श्लोकार्थः॥६६९॥
द्रव्यग्रासैषणादृष्टान्तस्य भावग्रासैषणायामुपनयः प्रदर्श्यते- मत्स्यस्थानीयः साधुः, मांसस्थानीयं तु भक्तपानम्, मात्स्यिकस्थानीयो रागादिसमुदायो, यथा न च्छलितो मत्स्य उपायग्रसनेन एवं साधुरपि आत्मानमात्मनैव अनुशास्ति भोजनकाले, कथम् ?
बायालीसेसणसंकडम्मि गहणम्मि जीव न हु छलिओ।
एण्हिं जह न छलिजसि भुंजतो राग-दोसेहिं॥६७०॥ बायालीस० गाहा। व्याख्या- द्विचत्वारिंशद्भेदैषणासङ्कटे (ग्रहणे) हे जीव ! यथा न च्छलितस्तथा साम्प्रतमपि भुजानो यथा न छल्यसे तथा विधेयम् ॥६७०॥ तामेव भावग्रासैषणामाह
घासेसणा उ भावे होइ पसत्था य अप्पसत्था य।
अपसत्था पंचविहा तब्विवरीया पसत्था तु॥६७१॥ घासेसणा उ गाहा। व्याख्या- ग्रासैषणा तु भावे भवति प्रशस्ता च अप्रशस्ता च; तत्राप्रशस्ता (टि०) १. ०लान्नष्टो० जि१ विना॥ २. हिंडतो जे२॥ ३. तहेव जे४ भां०॥ ४. सर्वमूलादर्शेषु अस्या अनन्तरं अधिका गाथा दृश्यते, किन्तु केनापि टीकाकारेण न विवृता। अवचूरिकारेण संक्षेपेण विवृता। साऽधिका गाथा इयम्- संजोइयमइबहुयं इंगाल सधूमगं अणट्ठाए। पंचविहा अपसत्था तविवरीया पसत्था तु॥५. दुविहा उ होइ बहि ॥१॥ ६. जोययतो जे२ खं। जोइंते ॥१॥
४