________________
९२
॥ सवृत्तिपिण्डनियुक्तिः ॥ सच्चित्त० गाहा। व्याख्या- सचित्तपृथिवीकायेन लिप्तं स्यालेष्टुं शिलां वा दातुमुपलिप्तं, सचित्तपृथिवीलेपश्चिरमप्यास्ते उदकमप्यचिरलिप्तेति गाथार्थः॥३७६॥
एवं तु पुव्वलित्ते काया उल्लिंपमाणे दो होजा।
तिम्मेउं उवलिंपइ जउमुदं वावि तावेउं॥३७७॥ एवं गाहा। व्याख्या- एवं = अनन्तरोक्तप्रकारेण पूर्वलिप्ते कायविराधना पश्चादुपलिप्यमानेऽपि कायद्वयस्य पृथिव्युदकरूपस्य विराधना स्यात्, कथम् ? यतस्तेमितुमुपलिम्पते, जतुमुद्रां वाऽपि तापयितुं ददाति। तत्र च वाय्वग्न्योर्विराधना स्यात्, तथा तत्रैव पनक-बीजादिवनस्पतिकायविराधना तथा त्रसकुन्थु-पिपीलिकादीनां च त्रसकायविराधनेति गाथार्थः॥३७७॥ अमुमेवार्थमाह
जह चेव पुव्वलित्ते काया दाउं पुणो वि तह चेव।
उल्लिप्पंते काया मूइंगादी नर्वरि छ?॥३७८॥ जह चेव गाहा। व्याख्या- यथा चैव पूर्वलिप्ते समुद्भिद्यमाने काया विराध्यन्ते देयं दत्त्वा पुनरपि तथा चैवोपलिप्यमाने काया विराध्यन्ते। 'मुइंगाईत्ति पिपीलिकादिविराधना नवरं 'छट्टे'त्ति त्रसकायविषयेति गाथार्थः॥३७८॥ उद्भिन्ने च दोषानाह
परस्स तं देइ स एव गेहे तेलं व लोणं व घयं गुलं वा।
उग्घाडियं तं तु करेइऽवस्सं सविक्कयं तेण किणाइ वण्णं॥३७९॥ 'परस्से'त्यादिरूपकम्। तत्प्रसङ्गेनैव परस्य तद्ददाति स्वगृहे च, वस्तुभेदमाह- तैलं वा लवणं ' वा घृतं गुडं वा उग्घाडियं तं तु' इति सप्तम्यर्थे द्वितीया उद्घाटिते तस्मिन् पुनाता करोत्यवश्यं विक्रयं तेन वा क्रीणात्यन्यदिति रूपकार्थः ॥३७९॥
दाण-कय-विक्कए चेव होंति अहिगरणमजतभावस्स।
निवडंति जे य तहियं जीवा मूइंग-मूसाई॥३८०॥ दाण० गाहा। व्याख्या- दान-क्रय-विक्रयाश्चैवं भवन्ति। तन्निमित्तं चाधिकरणं अयतभावस्य। निपतन्ति ये पुनस्तत्र जीवाः कीटिका-मूषिकादयस्तच्चाधिकरणमिति गाथार्थः॥३८०॥
जहेव कुंभाइसु पुव्वलित्ते उब्भिजमाणे य हवंति काया।
उल्लिंपमाणे "वि तिहा तहेव काया कवाडंमि विभासियव्वा ॥३८१॥ 'जह चेवे'त्यादिरूपकम्। यथा चैव कुम्भादिषु पूर्वलिप्तेषूद्भिद्यमानेषु च भवन्ति कायविराधनालक्षणा दोषाः, उपलिप्यमानेष्वप्येवं त्रिधा = त्रिप्रकारा विराधना, यथा पिहितोद्भिन्ने तथैव (टि०) १. ते चेव खं० जे१ विना॥ २. लित्तं जे१ को० ॥ ३. वर जे२॥ ४. ०करेतवस्सं खं०॥ ५. धम्मं जे१॥ ६. उद्घाटितं तु जि१॥ ७. होति जे२॥ ८. ण जे१॥ ९. जह चेव ॥२॥ १०. य जे१॥ ११. ०मि य भासि० जे२॥ (वि0टि०)..दातुम् = दत्वा इत्यर्थः॥ *. वीरगणिमते 'ते चेव' इति पाठः॥ 7. वीरगणिमते 'होति' इति पाठः॥