SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ १६६ त्रिकालविषयाशेषतत्त्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशितः ॥ ६४ ॥ त्वामन्धकान्तकं प्राहुर्मोहान्धासुरमर्दनात् । अर्धं ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥ ६५ ॥ बृहद् -निर्ग्रन्थ-: शिवः शिवपदाध्यासाद् दुरितारिहरो हरः । शङ्करः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥ ६६ ॥ वृषभोऽसि जगज्ज्येष्ठ पुरुः पुरुगुणोदयैः । नाभेयो नाभिसंभूतेरिक्ष्वाकुकुलनन्दनः ॥ ६७ ॥ त्वमेकः पुरुषस्कन्धस्त्वं द्वे लोकस्य लोचने । त्वं त्रिधा बुद्धसन्मार्गस्त्रिज्ञस्त्रिज्ञानधारकः ॥ ६८ ॥ चतुःशरणमाङ्गल्यमूर्तिस्त्वं चतुरस्रधीः । पञ्चब्रह्ममयो देव पावनस्त्वं पुनीहि माम् ॥ ६९ ॥ स्वर्गावतरणो तुभ्यं सद्योजातात्मने नमः । जन्माभिषेकवामाय वामदेव नमोऽस्तु ते ॥ ७० ॥ सन्निष्क्रान्तावघोराय परं प्रशममीयुषे । केवलज्ञानसंसिद्धावीशानाय नमोऽस्तु ते ॥ ७१ ॥ पुरस्तत्पुरुषत्वेन विमुक्तिपदभागिने । नमस्तत्पुरुषावस्थां भाविनीं तेऽद्य बिभ्रते ॥ ७२ ॥ ज्ञानावरणनिर्हासान्नमस्ते ऽनन्तचक्षुषे । दर्शनावरणोच्छेदान्नमस्ते विश्वदृश्वने ॥ ७३ ॥ नमो दर्शनमोहने क्षायिकामलदृष्टये । नमश्चारित्रमोहने विरागाय महौजसे ॥ ७४ ॥ नमस्तेऽनन्तवीर्याय नमोऽनन्तसुखात्मने । नमस्तेऽनन्तलोकाय लोकालोकावलोकिने ॥ ७५ ॥ य-स्तुतिमणिमञ्जूषा नमस्तेऽनन्तदानाय नमस्तेऽनन्तलब्धये । नमस्तेऽनन्तभोगाय नमोऽनन्तोपभोग ते ॥ ७६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy