SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १५४ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा तव वाक्प्रसरो दिव्यः पुनाति जगतां मनः । मोहान्धतमसं धुन्वन् स्वज्ञानाकांशुकोपमः ॥ २४ ॥ प्रातिहार्याण्यहार्याणि तवामूनि चकासति । लक्ष्मी हंस्याः समाक्रीडपुलिनानि शुचीनि वा ॥ २५ ॥ नमो विश्वात्मने तुभ्यं तुभ्यं विश्वसृजे नमः ।। स्वयम्भुवे नमस्तुभ्यं क्षायिकैर्लब्धिपर्ययैः ॥ २६ ॥ ज्ञानदर्शनवीर्याणि विरतिः शुद्धदर्शनम् । दानादिलब्धयश्चेति क्षायिक्यस्तव शुद्धयः ॥ २७ ॥ ज्ञानमप्रतिधं विश्वं पर्यच्छत्सीत्तवाक्रमात् । त्रयं ह्यावरणादेतद्व्यवधिः करणं क्रमः ॥ २८ ॥ चित्रं जगदिदं चित्रं त्वयाबोधि यदक्रमात् । अक्रमोऽपि क्वचिच्छ्लाघ्यः प्रभुमाश्रित्य लक्ष्यते ॥ २९ ॥ इन्द्रियेषु समग्रेषु तव सत्स्वप्यतीन्द्रियम् । ज्ञानमासीदचिन्त्या हि योगिनां प्रभुशक्तयः ॥ ३० ॥ यथा ज्ञानं तवैवाभूत् क्षायिकं तव दर्शनम् । ताभ्यां युगपदेवासीदुपयोगस्तवाद्भुतम् ॥ ३१ ॥ तेन त्वं विश्वविज्ञेय व्यापिज्ञानगुणाद्भुतः । सर्वज्ञः सर्वदर्शी च योगिभिः परिगीयसे ॥ ३२ ॥ विश्वं विजानतोऽपीश यत्तेनास्ता श्रमक्लमौ । अनन्तवीर्यताशक्तेस्तन्माहात्म्यं परिस्फुटम् ॥ ३३ ॥ रागादिचित्तकालुष्यव्यपायादुदिता तव । विरतिः सुखमात्मोत्थं व्यनक्त्यात्यन्तिकं विभो ॥ ३४ ॥ विरतिः सुखमिष्टं चेत् सुखं त्वय्येव केवलम् । नो चेन्नैवासुखं नाम किञ्चिदत्र जगत्त्रये ॥ ३५ ॥ प्रसन्नकलुषं तोयं यथेह स्वच्छतां व्रजेत् । मिथ्यात्वकर्दमापायादृक् शुद्धिस्ते तथा मता ॥ ३६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy