________________
(३२)
श्रीमद्-भद्रकीर्तिसूरिविरचिता 'श्रीशान्तिदेवतासमेता जिनस्तुतिः '
(ईस्वी ८०० - ८२५)
(मन्दाक्रान्तावृत्तम्)
शान्तो वेषः शमसुखफलाः श्रोतृगम्या गिरस्ते कान्तं रूपं व्यसनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृतपतेस्त्वय्यसङ्गा विबोधे
प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति ॥ १॥
अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं
शमसुखफलः प्राप्तौ धर्मः स्फुट: शुभसंश्रयः ।
मनसि करुणा स्फीता रूपं परं नयनामृतं
किमिति सुमते ! त्वय्यन्यः स्यात् प्रसादकरं सताम् ॥ २ ॥ ( वंशस्थ )
निरस्तदोषेऽपि तरीव वत्सले
कृपात्मनि त्रातरि सौम्यदर्शने । हितोन्मुखे त्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् ॥ ३ ॥
सर्वसत्त्वहितकारिणि नाथे
न प्रसीदति मनस्त्वयि यस्य ।
मानुषाकृतितिरस्कृतमूर्ते
रन्तरं किमिह तस्य पशोर्वा ? ॥ ४ ॥
त्वयि कारुणिके न यस्य भक्तिजगदभ्युद्धरणोद्यतस्वभावे ।
न हि तेन समोऽधमः पृथिव्या
मथवा नाथ ! न भाजनं गुणानाम् ॥ ५ ॥