________________
(१४) संभवतः श्रीजटासिंहनन्दीप्रणीता 'श्रीश्रमणमुनिगुणस्तुतिः'
(ईस्वी सप्तमशताब्द्याः तृतीयश्चरणः प्रायः)
(विषमवृत्तम्) जातिजरोरुरोगमरणातुरशोकसहस्रदीपिताः । दुःसहनरकपतनसन्त्रस्यधियः प्रतिबुद्धचेतसः ॥ जीवितमम्बुबिन्दुचपलं तडिदभ्रसमा विभूतयः । सकलमिदं विचिन्त्य मुनयः प्रशमाय वनान्तमाश्रिताः ॥ १ ॥ व्रतसमितिगुप्तिसंयुताः शिवसुखमाधाय मनसि वीतमोहाः । ध्यानाध्ययनवशंगताः विशुद्धये कर्मणां तपश्चरन्ति ॥ २ ॥ दिनकरकिरणनिकरसंतप्तशिलानिचयेषु निस्पृहाः । मलपटलावलिप्ततनवः शिथिलीकृतकर्मबन्धनाः ॥ व्यपगतमदनदर्परतिदोषकषायविरक्तमत्सरा : । गिरिशिखरेषु चण्डकिरणाभिमुखस्थितयो दिगम्बराः ॥ ३ ॥ सज्ज्ञानामृतपायिभिः क्षान्तिपयः सिच्यमानपुण्यकायैः । धृतसंतोषच्छत्रकैस्तापस्तीव्रोऽपि सह्यते मुनीन्द्रैः । ४ ॥ शिखिगलकज्जलालिमलिनैर्विबुधाधिपचापचित्रितैः । भीमरवैर्विसृष्टचण्डाशनिशीतलवायुवृष्टिभिः ॥ गगनतलं विलोक्यं जलदैः स्थगितं सहसा तपोधनाः । पुनरपि तरुतलेषु विषमासु निशासु विशङ्कमासते ॥ ५ ॥ जलधाराशरताडिता न चलन्ति चरित्रतः सदा नृसिंहाः ॥ संसारःदुःखभीरवः परीषहारातिघातिनः प्रवीराः ॥ ६ ॥ अविरतबहलतुहिनकणवारिभिः अध्रिपपत्रपातनैः । अनवरतमुक्तसीत्काररवैः परुषैरथानिलैः शोषितगात्रयष्टयः । इह श्रमणा धृतिकम्बलावृताः शिशिरनिशां । तुषारविषमां गमयन्ति चतुःपथे स्थिताः ॥ ७ ॥ इति योगत्रयधारिणः सकलतपःशालिनः प्रवृद्धपुण्यकायाः । परमानन्दसुखैषिणः समाधिमग्र्यं दिशन्तु नो भदन्ताः ॥ ८ ॥