SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १०६ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा आत्मोपादानसिद्धं स्वयमतिशयवद्वीतबाधं विशालम् । वृद्धिहासव्यपेतं विषयविरहितं निःप्रतिद्वन्द्वभावम् ॥ अन्यद्रव्यानपेक्षं निरुपममनितं शाश्वतं सर्वकालम् । उत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् ॥ ७ ॥ नार्थः क्षुत्तृविनाशाद्विविधरसयुतैरन्नपानैरशुच्या । नास्पृष्टैर्गन्धमाल्यैर्न हि मृदुशयनैग्लनिनिद्राद्यभावात् ॥ आतङ्कार्तेरभावे तदुपशमनसद्भेषजानर्थतावद् । दीपानर्थक्यवद्वा व्यपगततिमिरे दृश्यमाने समस्ते ॥ ८ ॥ तासम्पत्समेता विविधनयतपः संयमज्ञानदृष्टि - । चर्यासिद्धाः समन्तात्प्रविततयशसो विश्वदेवाधिदेवाः ॥ भूता भव्या भवन्तः सकलजगति ये स्तूयमाना विशिष्टैः । तान्सर्वान्नौम्यनन्तान्त्रिजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम् ॥ ९ ॥ कृत्वा कायोत्सर्गं चतुरष्टदोषविरहितं सुपरिशुद्धम् । अति भक्तिसंप्रयुक्तो यो वन्दते स लघु लभते परमसुखम् ॥ १० ॥ 30
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy