________________
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा त्वमिन्द्रियविनिग्रहप्रवणनिष्ठुरं भाषसे तपस्यपि यातयस्यनघदुष्करे संश्रितान् । अनन्यपरिदृष्टया षडसुकायसंरक्षया । स्वनुग्रहपरोऽप्यहो ! त्रिभुवनात्मनां नापरः ॥ ७ ॥ ददास्यनुपमं सुखं स्तुतिपरेष्वतुष्यन्नपि क्षिपस्यकुपितोऽपि च ध्रुवमसूयकान्दुर्गतौ । न चेश ! परमेष्ठिता तव विरुद्धयते यद्भवान् न कुप्यति न तुष्यति प्रकृतिमाश्रितो मध्यमाम् ॥ ८ ॥ परिक्षपितकर्मणस्तव न जातु रागादयो न चेन्द्रियविवृत्तयो न च मनस्कृता व्यावृतिः । तथाऽपि सकलं जगधुगपदंजसा वेत्सि च। प्रपश्यसि च केवलाभ्युदितदिव्यसच्चक्षुषा ॥ ९ ॥ क्षयाच्च रतिरागमोहभयकारिणां कर्मणां कषायरिपुनिर्जयः सकलतत्त्वविद्योदयः । अनन्यसदृशं सुखं त्रिभुवनाधिपत्यं च ते सुनिश्चितमिदं विभो ! सुमुनिसम्प्रदायादिभिः ॥ १० ॥ न हीन्द्रियधिया विरोधि न च लिङ्गबुद्धया वचो न चाप्यनुमतेन ते सुनय ! सप्तधा योजितम् । व्यपेतपरिशङ्कनं वितथकारणादर्शनादतोऽपि भगवंस्त्वमेव परमेष्ठितायाः पदम् ॥ ११ ॥ न लुब्ध इति गम्यसे सकलसङ्गसंन्यासतो न चाऽपि तव मूढता विगतदोषवाग्यद्भवान् । अनेकविधरक्षणादसुभृतां न च द्वेषिता निरायुधतयाऽपि च व्यपगतं तथा ते भयम् ॥ १२ ॥ यदि त्वमपि भाषसे वितथमेवमाप्तोऽपि सन् परेषु जिन का कथा प्रकृतिलुब्धमुग्धादिषु । न चाऽप्यकृतकात्मिका वचनसंहतिदृश्यते पुनर्जननमप्यहो ! न हि विरुध्यते युक्तिभिः ॥ १३ ॥