________________
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ मत्तद्विपेन्द्र-मृगराज-दवानलाहि
सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धाम्
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्त्रं
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥