________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
भिन्नेभकुम्भगलदुज्जवलशोणिताक्त
मुक्ताफलप्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि
नाक्रामति क्रमयुगाऽचलसंश्रितं ते ॥ ३५ ॥ कल्पान्तकालपवनोद्धतवह्निकल्पं
___ दावानलं ज्वलितमुज्जवलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तम्
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ रक्तेक्षणं समदकोकिलकण्ठनीलं
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क
स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥ वल्गत्तुरङ्गगजगजितभीमनाद
माजौ बलं बलवतामरिभूपतीनाम् । उद्यद्दिवाकरमयूखशिखाऽपविद्धं
___ त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ३८ ॥ कुन्ताग्रभिन्नगजशोणितवारिवाह
वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्र
___पाठीनपीठभयदोल्बणवाडवाऽग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रा
स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ उद्भूतभीषणजलोदरभारभुग्नाः
शोच्यां दशामुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः
मा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥