________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
बिभेति मृत्योर्न ततोऽस्ति मोक्षो नित्यं शिवं वाञ्छति नाऽस्य लाभः । तथाऽपि बालो भय-काम-वश्यो वृथा स्वयं तप्यत इत्यवादीः ॥ ३४ ॥ सर्वस्य तत्त्वस्य भवान् प्रमाता मातेव बालस्य हिताऽनुशास्ता । गुणाऽवलोकस्य जनस्य नेता मयाऽपि भक्त्या परिणूयतेऽद्य ॥ ३५ ॥
(उपजाति) चन्द्रप्रभं चन्द्रमरीचिगौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं जिनं जितस्वान्तकषायबन्धम् ॥ ३६ ॥ यस्याङ्गलक्ष्मीपरिवेशभिन्नं तमस्तमोऽरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहु मानसं च ध्यानप्रदीपाऽतिशयेन भिन्नम् ॥ ३७ ॥ स्वपक्षसौस्थित्यमदाऽवलिप्ता वासिंहनादैर्विमदा बभूवुः । प्रवादिनो यस्य मदागण्डा गजा यथा केसरिणो निनादैः ॥ ३८ ॥ यः सर्वलोके परमेष्ठितायाः पदं बभूवाऽद्धतकर्मतेजाः । अनन्तधामाऽक्षरविश्वचक्षुः समन्तदुःखक्षयशासनश्च ॥ ३९ ॥ स चन्द्रमा भव्यकुमुद्वतीनां विपन्नदोषाऽभ्रकलङ्कलेपः । व्याकोशवाङ्यायमयूखमाल: पूयात्पवित्रो भगवान्मनो मे ॥ ४० ॥