________________
( ३ )
श्रीसिद्धसेनदिवाकरकृता एकविंशतितमा द्वात्रिंशिका
अपरनामा
परात्मा - द्वात्रिंशिका
(प्रायः ईस्वी पञ्चमशताब्दीप्रथमचरणं)
(भुजङ्गप्रयातः)
सदा योगसात्म्यात् समुद्भूतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः ।
त्रिलोकीशवन्द्यस्त्रिकालज्ञनेता
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १ ॥
शिवोऽथादिसङ्ख्योऽथ बुद्धः पुराणः
पुमानप्यलक्ष्योऽप्यनेकोऽप्यथैकः ।
प्रकृत्याऽऽत्मवृत्त्याप्युपाधिस्वभावः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २ ॥
जुगुप्साभयाऽज्ञाननिद्राऽविरत्यङ्ग
भूहास्यशुग्द्वेषमिथ्यात्वरागैः । न यो रत्यरत्यन्तरायैः सिषेवे
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३ ॥ न यो बाह्यसत्त्वेन मैत्रीं प्रपन्न
स्मोभिर्न नो वा रजोभिः प्रणुन्नः । त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ४ ॥
हृषीकेश ! विष्णो ! जगन्नाथ ! जिष्णो !
मुकुन्दाऽच्युत ! श्रीपते ! विश्वरूप ! ।
अनन्तेति संबोधितो यो निराशैः
स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ५ ॥