________________
(७)
श्रीमानतुङ्गाचार्यकृतं 'श्री भयहरस्तोत्रं अपरनाम नमिऊणस्तोत्रम्'
(प्रायः ईस्वी ५७५-६२५)
(गाथाछंदः)
नमिऊण पणयसुरगण-चूडामणिकिरणरंजिअं मुणिणो । चलणजुअलं महाभय-पणासणं संथवं वुच्छं ॥१॥ नत्वा प्रणतसुरगणचूडामणिकिरणरञ्जितं मुनेः । चरणयुगलं महाभयप्रणाशनं संस्तवं वक्ष्ये ॥ सडियकरचरणनहमुह-निबुड्डनासा विवन्नलायन्ना । कुट्ठमहारोगानल-फुलिंग निद्दड्ड सव्वंगा ॥ २ ॥ शटितकरचरणनखमुखनिमग्ननासा विपन्नलावण्याः । कुष्ठमहारोगानलस्फुलिङ्गनिर्दग्धसर्वाङ्गाः ॥ ते तुह चलणाराहण-सलिलंजलिसेयवुड्डियच्छाया । वणदवदड्डा गिरिपायव व्व पत्ता पुणो लच्छि ॥ ३ ॥ ते तव चरणाराधनसलिलाञ्जलिसेकवधितच्छायाः । वनदवदग्धा गिरिपादपा इव प्राप्ताः पुनर्लक्ष्मीम् ॥ दुव्वायखुभियजलनिहि उब्भडकल्लोलभीसणारावे । संभंतभयविसंतुल-निज्जामयमुक्कवावारे ॥ ४ ॥ दुर्वाताभिते जलनिधौ उद्भटकल्लोलभीषणारावे । सम्भ्रान्तभयविसंस्थुल-निर्यामकमुक्तव्यापारे । अविदलिअजाणवत्ता खणेण पावंति इच्छिअं कूलं । पासजिणचलणजुअलं निच्चं चिअ जे नमंति नरा ॥ ५ ॥ अविदलितयानापात्राः क्षणेन प्राप्नुवन्ति ईप्सितं कूलम् । पार्श्वजिनचरणयुगलं नित्यमेव ये नमन्ति नराः ।