________________
सूत्रकृताङ्गे भाषानुवादसहिते सप्तममध्ययने प्रस्तावना
कुशीलपरिभाषाधिकारः
॥ अथ सप्तममध्ययनं प्रारभ्यते ||
उक्तं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्त्तनतः सुशीलपरिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा- कुशीला:- परतीर्थिकाः पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थाः परि - समन्तात् भाष्यन्ते - प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण क्वचित्सुशीलाश्चेति, निक्षेपस्त्रिधा - ओघनामसूत्रालापकभेदात्, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनं नामनिष्पन्ने कुशीलपरिभाषेति, एतदधिकृत्य निर्युक्तिकृदाह
छट्ठा अध्ययन कहा जा चुका, अब सातवाँ आरम्भ किया जाता है, इसका सम्बन्ध यह है- इसके पूर्व अध्ययन में भगवान् महावीर स्वामी के गुणों को बताकर सुशील पुरुष की परिभाषा बतायी गयी है । इसके पश्चात् सुशील से विपरीत कुशील पुरुष की परिभाषा इस अध्ययन के द्वारा बतायी जाती है । इस सम्बन्ध से आये हुए इस अध्ययन के चार अनुयोगद्वारों का वर्णन करना चाहिए। उसमें उपक्रम में अर्थाधिकार यह है, परतीर्थी कुशील हैं तथा स्वयूथिक पार्श्वस्थ आदि भी कुशील हैं एवं शील रहित गृहस्थ भी कुशील हैं, इन लोगों के अनुष्ठान और फल तथा उनके दुर्गतिगमन का वर्णन इस अध्ययन में पूर्णरूपेण किया है, एवं इनसे विपरीत सुशील पुरुष का भी कहीं कहीं वर्णन किया है । निक्षेप तीन प्रकार का है- ओघ, नाम और सूत्रालापक । इनमें ओघ निक्षेप में यह समस्त अध्ययन का कुशील परिभाषा नाम है, इस विषय में नियुक्तिकार कहते हैंसीले चउक्क दव्ये पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव
॥८६॥ नि०
टीका 'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क' मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य 'द्रव्यम्' इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं, अस्यायमर्थः- यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवर्तते स तच्छील:, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा- ओघशीलमाभीक्ष्ण्यसेवनाशीलं चेति ॥ ८६ ॥ तत्रौघशीलं व्याचिख्यासुराह
ओहे सीलं विरती विरयाविरई य अविरती असीलं । धम्मे णाणतवादी अपसत्थ अहम्मकोवादी ॥८७॥ निण तत्रौघः- सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति आभीक्ष्ण्यसेवायां तु अनवरतसेवनायां तु शीलमिदं तद्यथा- 'धर्मे' धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपः करणं वा, आदिग्रहणादनवरताभिग्रहग्रहणादिकं परिगृह्यते, अप्रशस्तभावशीलं त्वधर्मप्रवृत्तिर्बाह्या आन्तरा तु क्रोधादिषु प्रवृतिः, आदिग्रहणात् शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति ॥ ८७ ॥ साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतां दर्शयितुमाह
परिभासिया कुसीला य एत्थ जायंति अविरता केई । सुति पसंसा सुद्धो कुत्ति दुगंछा अपरिसुद्धो ॥ ८८ ॥ नि० परि - समन्तात् भाषिताः- प्रतिपादिताः 'कुशीलाः कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च च शब्दात् यावन्तः केचनाविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याहसुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते, तद्यथा - सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थं कुग्राम इत्यादि ॥८८॥ यदि कुत्सितशीलाः कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह
३६२