________________
सूत्रकृताङ्गेभाषानुवादसहिते सूत्र १
षोडशं श्रीगाथाध्ययनम् भावार्थ - पन्द्रह अध्ययन कहने के पश्चात् भगवान् ने कहा कि-पन्द्रह अध्यायों में कहे हुए अर्थ से युक्त जो पुरुष इन्द्रिय और मन को वश किया हुआ मुक्ति जाने योग्य शरीर को व्युत्सर्ग किया हुआ है, उसे महान, श्रमण, भिक्षु, अथवा निर्ग्रन्थ कहना चाहिए । शिष्य ने पूछा हे भदन्त ! पन्द्रह अध्ययनों में कहे हुए अर्थ से युक्त जो पुरुष इन्द्रिय और मन को जीता हुआ मुक्ति जाने योग्य तथा कायव्युत्सर्ग किया हुआ है, वह क्यों माहन, श्रमण, भिक्षु अथवा निर्ग्रन्थ कहने योग्य है ?। हे महामुने ! यह मुझ को आप बताईए ?। पूर्वोक्त पन्द्रह अध्ययनों में जो उपदेश किया है, उसके अनुसार आचरण करनेवाला जो पुरुष सब पापों से हटा हुआ है तथा किसी से रागद्वेष नहीं करता है, किसी से कलह नहीं करता है, किसी पर झूठा दोष नहीं लगाता है, किसी की चुगुली नहीं करता है, किसी की निन्दा नहीं करता है एवं संयम में अप्रेम और असंयम में प्रेम नहीं करता है, कपट नहीं करता है, झूठ नहीं बोलता है, मिथ्यादर्शन शल्य से अलग रहता है पाँच गुप्तिओं से गुप्त और ज्ञानादि गुणों से सहित, सदा इन्द्रियों को जीतनेवाला किसी पर क्रोध नहीं करता है मान नहीं करता है, वह माहन कहने योग्य है।
टीका - 'अथे' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तु बुध्येतेत्यनेनाभिहितं, अत आद्यन्तयोर्मङ्गलत्वात्सर्वोऽपि श्रुतस्कन्धो मङ्गलमित्येतदनेनावेदितं भवति । आनन्तर्ये वाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते । अथानन्तरमाह-'भगवान्' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः स साधुर्दान्त इन्द्रियनोइन्द्रियदमनेन, द्रव्यभूतो मुक्तिगमनयोग्यत्वात् 'द्रव्यं च भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहितत्वाद्वाजात्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ताध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुण-कदम्बकयुक्तः साधुर्माहनो ब्राह्मण [ग्रन्थाग्रम् ८०००] इति वा वाच्यः, तथा श्राम्यति तपसा खिद्यत इतिकृत्वा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मनः अन्तःकरणं यस्य स सममनाः सर्वत्र वासीचन्दनकल्प इत्यर्थः, तथा चोक्तम्- 1"णत्थि य सि कोइ वेसो" इत्यादि। तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं वाच्यः साधुरिति। तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकार कर्मेति भिक्षुः स साधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः । तथा सबाह्याभ्यन्तरग्रन्थाभावान्निर्ग्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च [स] निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्य:भगवन् ! भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुनिर्ग्रन्थ इति वाच्यः तदेतत्कथं ? यद्भगवतोक्तं ब्राह्मणादिशब्दवाच्यत्वं साधोरिति, एतन्नः-अस्माकं 'ब्रूहि आवेदय 'महामुने !'
कालवेदिन् ॥।॥ इत्येवं पृष्टो भगवान् ब्राह्मणादीनां चतुर्णामप्यभिधानानां कथञ्चिद्भेदाद्भिन्नानां यथाक्रम प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् 'विरतो' निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेष:-अप्रीतिलक्षणः कलहो-द्वन्द्वाधिकरणमभ्याख्यानम् असदभियोगः पैशुन्यं (कर्णेजपत्वं) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिवादः काक्वा परदोषापादनं अरतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिःविषयाभिष्वङ्गो माया-परवञ्चना तया कुटिलमतेम॒षावादः-असदर्थाभिधानं गामश्वं ब्रुवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्त्वमिति, यथा‘णत्थि ण णिच्चो ण कणइ कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥२॥
इत्यादि, एतदेव शल्यं तस्मिंस्ततो वा विरत इति, तथा सम्यगितः समितः-ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन-परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभिः तथा 'सदा' सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैनिःसारीकुर्यादित्याह-कस्यचिदप्यपकारिणोऽपि न क्रुध्येत-आक्रुष्टः सन्न क्रोधवशगो भूयात्, नापि मानी भवेदुत्कृष्टतपोयुक्तोऽपि न गवं विदध्यात्, तथा चोक्तम्"जइ सोऽवि निज्जरमओ पडिसिन्दो अठ्ठमाणमहणेहिं । अवसेसमयट्ठाणा परिहरियव्वा पयत्तेण।।१।।"
अस्य चोपलक्षणार्थत्वाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्माहन इति निःशङ्कं वाच्य इति 1. नास्ति तस्य कोऽपि द्वेष्यः । 2. नास्ति न नित्यो न करोति न कृतं वेदयति नास्ति निर्वाणं । नास्ति च मोक्षोपायः षण्मिथ्यात्वस्य स्थानानि ॥१॥ 3. यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः। अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन ।।१।।
-
-
६२७