________________
सूत्रकृताङ्गेभाषानुवादसहिते पञ्चदशमध्ययने गाथा ८
पञ्चदशमादानीयाध्ययनम् दिखलाया है इसलिए जो लोग कहते हैं कि उस जगत्पति परम पुरुष का अविनाशी ज्ञान, वैराग्य, ऐश्वर्य और धर्म ये चारों साथ ही यानी स्वभावसिद्ध हैं" " यह खण्डित समझना चाहिए क्योंकि संसार का स्वरूप जानकर पश्चात् उसका अभाव किया जाता है परन्तु स्वयमेव कोई अनादि सिद्ध पुरुष नहीं है क्योंकि इस बात को सिद्ध करनेवाली कोई युक्ति नहीं है ||७||
किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह
वह पुरुष जाति आदि के द्वारा परिच्छिन्न नहीं होता है, इसका क्या कारण है ? यह शङ्का करके शास्त्रकार कहते हैं कि
-
ण मिज्जई महावीरे, जस्स नत्थि पुरेकडं ।
वाउव्व जालमच्चेति, पिया लोगंसि इत्थिओ
11211
छाया - न म्रियते महावीरो, यस्य नास्ति पुराकृतम् । वायुरिव ज्वालामत्येति, प्रिया लोकेषु स्त्रियः ॥
अन्वयार्थ - (जस्स पुरेकडं नत्थि ) जिसका पूर्वकृत कर्म नहीं है (महावीरे ण मिज्जई) वह महावीर पुरुष जन्मता मरता नहीं है (जालं वाउव्व लोगंसि पिया इत्यिओ अच्चेति) जैसे वायु अग्नि की ज्वाला को उल्लङ्घन कर जाता है, उसी तरह इस लोक में वह महावीर पुरुष प्रिय स्त्रियों को उल्लङ्घन कर जाता है ।
भावार्थ - जिसको पूर्वकृत कर्म नहीं है, वह पुरुष जन्मता मरता नहीं है, जैसे वायु अग्नि की ज्वाला को उल्लङ्घन कर जाता है, इसी तरह वह महावीर पुरुष प्रिय स्त्रियों को उल्लङ्घन कर जाता है अर्थात् वह प्रिय स्त्रियों के वश में नहीं होता ।
टीका - असौ महावीरः परित्यक्ताशेषकर्मा न जात्यादिना 'मीयते' परिच्छिद्यते, न म्रियते वा, जातिजरामरणरोग शोकैर्वा संसारचक्रवाले पर्यटन् न भ्रियते न पूर्यते किमिति ?, यतस्तस्यैव जात्यादिकं भवति यस्य 'पुरस्कृ (राकृ) तं' जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य 'नास्ति' न विद्यते पुरस्कृ (राकृ)तं, पुरस्कृ (राकृ) तकर्मोपादानाभावाच्च न तस्य जातिजरामरणैर्भरणं संभाव्यते, तदाश्रवद्वारनिरोधाद्, आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सततगतिरप्रतिस्खलिततया 'अग्निज्वालां' दहनात्मिकामप्यत्येति - अतिक्रामति पराभवति, न तया पराभूयते, एवं 'लोके' मनुष्यलोके हावभावप्रधानत्वात् 'प्रिया' दयितास्तत्प्रियत्वाच्च दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाच्चेति, तथा चोक्तम्"स्मितेन भावेन मदेन लज्जया, पराङ्मुखैरर्धकटाक्षवीक्षितैः । वचोभिरीर्ष्याकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः ||१|| तथा स्त्रीणां कृते भ्रातृयुगस्य भेदः, संबन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥२॥”
इत्येवं तत्स्वरूपं परिज्ञाय तज्जयं विधत्ते, नैताभिर्जीयत इति स्थितम् । अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति ?, अत्रोच्यते, केषाञ्चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति, तथा चोचुः
"न मांसभक्षणे दोषी, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ||१||” इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यमतीर्थकृतां चतुर्याम एव धर्मः इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानि इदं तु निरपवादमित्यस्यार्थस्य प्रकटनायैवमकार, अथवा सर्वाण्यपि व्रतानि तुल्यानि, एकखण्डने सर्वविराधनमितिकृत्वा येन केनचिन्निर्देशो न दोषायेति ॥८॥ 1. स्त्रीवशताफलस्य नरकादेः दर्शनात् यद्वा स्त्रीणां वशवर्ती न भवतीति प्रागुक्तं, असंभवि चेत्र, तत्स्वरूपेत्यादि, अनर्थकारित्वावगमाद् विरतिः, तत्र प्रमाणं कामजयलभ्यफलदर्शनम् जयोपायस्य भोगजन्यदारुणविपाकस्य च ज्ञानाद्वा । 2. समन्तपाशं प्र० ।
६१०