SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गेभाषानुवादसहिते पञ्चदशमध्ययने प्रस्तावना पञ्चदशमादानीयाध्ययनम् || अथ आदाननामकं पञ्चदशमध्ययनं प्रारभ्यते ॥ अथ चतुर्दशाध्ययनानन्तरं पञ्चदशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने सबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यभिहितं, ग्रन्थपरित्यागाच्चायतचारित्रो भवति साधुः ततो यादृगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आयतचारित्रेण साधुना भाव्यं । नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाऽशेषकर्मक्षयार्थं यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृत्वा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यत आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाह - चौदहवाँ अध्ययन कहने के पश्चात् पन्द्रहवाँ आरम्भ किया जाता है । इस अध्ययन का पूर्व अध्ययन के साथ सम्बन्ध यह है- पूर्व अध्ययन में कहा है कि- साधु को बाह्य और आभ्यन्तर दोनों प्रकार के ग्रन्थों का त्याग करना चाहिए । ग्रन्थ के त्याग करने से साधु आयतचारित्र यानी महान् चारित्रवाला होता है इसलिए जैसा साधु जिस प्रकार से सम्पूर्ण आयतचारित्रता को प्राप्त करता है, सो इस अध्ययन के द्वारा बताया जाता है । इस सम्बन्ध से आये हुए इस अध्ययन के उपक्रम आदि चार अनुयोगद्वार हैं, उनमें उपक्रम में अर्थाधिकार यह है किसाधु को आयत चारित्र होना चाहिए । नामनिष्पन्न निक्षेप में इस अध्ययन का आदानीय नाम है। मोक्षार्थी पुरुष समस्त कर्मों का क्षय करने के लिए जिस ज्ञान आदि को ग्रहण करते हैं, सो इस अध्ययन में बताया जाता है इसलिए इस अध्ययन का आदानीय नाम है। पर्याय के द्वारा कहा हुआ अर्थ सुख से ग्रहण करने योग्य होता है, इसलिए आदान शब्द का और उसके पर्याय ग्रहण शब्द का निक्षेप करने के लिए नियुक्तिकार कहते हैं। आदाणे गहणंमि य णिक्वेयो होति दोण्हयि चउक्को । एगटुं नाणटुं च होज्ज पगयं तु आदाणे ॥१३२॥नि जं पढमस्संतिमए बितियस्स उ तं हवेज्ज आदिमि । एतेणादणिज्जं एसो अन्नोऽवि पज्जाओ १३३॥ नि। णामादी ठवणादी दव्यादी चेव होति भावादी । दव्यादी पुण दव्यस्स जो सभावो सए ठाणे ॥१३४॥ नि आगमणोआगमओ भावादी तं बुहा उवदिसंती । णोआगमओ भायो पंचयिहो होइ णायव्यो ॥१३५॥ नि। आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंथसिलोगो पदपादअक्खराई च तत्थादी ॥१३६॥ नि। टीका - अथवा 'जमतीय'ति अस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानं, तच्च ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपार्थं नियुक्तिकृदाह- 'आदाणे' इत्यादि, आदीयते कार्यार्थिना तदित्यादानं, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयते-गृह्यते स्वीक्रियते विवक्षितमनेनेतिकृत्वा, आदानं च पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोनिक्षेपो(पे) भवति द्वौ चतुष्को, तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तं, यस्माल्लौकिकैः परित्यक्तान्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा, भावादानं तु द्विधा-प्रशस्तमप्रशस्तं च, तत्राप्रशस्तं क्रोधाद्युदयो मिथ्यात्वाविरत्यादिकं वा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसायकण्डकोपादानं सम्यग्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायत्वादस्येति । एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणादानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थम्-अभिन्नार्थं भवेत्, शब्दसमभिरूढेत्थंभूतशब्दनयाभिप्रायेण च 'नानार्थं भवेत् । इह तु 'प्रकृतं' प्रस्ताव 'आदाने' आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य नाम कृतमिति ॥ आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन प्रकारेण-आद्यन्तपदसदृशत्वेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः 'पर्यायः' अभिप्रायः अन्यो वा 1. कर्मकरणयोर्भेदात्, यद्वा धातुभेदेनार्थभेदात्, सामान्यं ग्रहणं आदावादानादादानमिति वा भेदः ॥ ६००
SR No.032700
Book TitleSutrakritanga Sutra Part 02
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy