________________
सूत्रकृताङ्गेभाषानुवादसहिते चतुर्दशमध्ययने प्रस्तावना
ग्रन्थाध्ययनम् || अथ ग्रन्थनामक चतुर्दशमध्ययनं प्रारभ्यते ।। उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने याथातथ्यमिति सम्यक्चारित्रमभिहितं, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथासबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति । नामनिष्पन्ने तु निक्षेपे आदानपदाद्गुणनिष्पन्नत्वाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह -
तेरहवाँ अध्ययन कहा गया अब चौदहवाँ आरम्भ किया जाता है। इसका सम्बन्ध यह है- तेरहवें अध्ययन में शुद्ध चारित्र का वर्णन किया है परन्तु वह चारित्र बाहर और भीतर के ग्रन्थ (गाँठ) को छोड़ने से निर्मल होता है, इसलिए इस अध्ययन में उस ग्रन्थ यानी गाँठ के त्याग करने का उपदेश किया जाता है, इस सम्बन्ध से आये हुए इस अध्ययन के उपक्रम आदि चार अनुयोग द्वार हैं, उनमें उपक्रम में अर्थाधिकार यह है- जीव को बाह्य और आभ्यन्तर दोनों प्रकार के ग्रन्थों का त्याग करना चाहिए । नामनिष्पन्न निक्षेप में आदान पद के हिसाब के और गुण के अनुसार इस अध्ययन का नाम ग्रन्थ है । उस ग्रन्थ के विषय में नियुक्तिकार कहते हैं - गंथो पुबुद्दिट्ठो दुविहो सिस्सो य होति णायव्यो । पव्यावण सिक्खायण पगयं सिक्खावणाए उ॥१२७॥ नि। सो सिक्खगो य दुविहो गहणे आसेयणाय णायव्यो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य॥१२८॥नि आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे यः । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥१२९॥ नि आयरिओऽविय दुयिहो पव्यायंतो व सिक्खयंतो य । सिक्खायंतो दुविहो गहणे आसेवणे चेव॥१३०॥ नि० गाहायिंतो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण-उत्तरगुणे दुयिहो आसेयणाए उ ॥१३१॥ नि०
टीका - ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो' द्विप्रकारो ज्ञातव्यो भवति, तद्यथा-प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षां वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह [तु] पुनः शिक्षाशिष्येण 'प्रकृतम्' अधिकारो यः शिक्षा गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः ॥ यथाप्रतिज्ञात-मधिकृत्याह- यः शिक्षां गृह्णाति शैक्षकः स द्विविधो-द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षां-इच्छामिच्छातहक्कारादिरूपां गृह्णाति शिक्षति, तथा शिक्षितां चाभ्यस्यति-अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवना-भेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाहशिक्षाया 'ग्रहणे' उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा-सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः ॥ साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह- यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा- 'मूलगुणे' मूलगुणविषये आसेवमानः- सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा 'उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पञ्चप्रकारः-प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवनाशिक्षकः, तथोत्तरगुणविषये सम्यपिण्डविशुद्धयादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः"पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि।१।'
यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणत्वेनाधिकृत्याह- 'उत्तरगुणे' उत्तरगुणविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति ॥ शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा(णाया)ह-शिष्यापेक्षया हि आचार्यो 'द्विविधो' द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयन्नपि द्विविधः-एको यः शिक्षाशास्त्रं ग्राहयति-पाठयत्यपरस्तु तदर्थं दशविधचक्रवालसामाचार्यनुष्ठानतः 1. पिण्डस्य या विशोधिः समितयो भावनास्तपो द्विविधम् । प्रतिमा अभिग्रहा अपि चोत्तरगुणा (इति) विजानीहि ।।9।। 2. सत्स्वप्येते प्र० ।
५७२