________________
सूत्रकृताङ्गेभाषानुवादसहिते त्रयोदशमध्ययने प्रस्तावना
श्रीयाथातथ्याध्ययनम् || अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ।।
समाप्तं समवसरणाख्यं द्वादशमध्ययनं, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायसभिसंबन्धः-इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि; तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्चअनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोऽत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाह -
समवसरण नामक बारहवाँ अध्ययन समाप्त हो चुका अब तेरहवाँ आरम्भ किया जाता है । इसका पूर्व अध्ययन के साथ सम्बंध यह है- बारहवें अध्ययन में परवादियों के मत कहे गये हैं और उसका खण्डन भी किया गया है, परन्तु वह खण्डन सत्यवचन के द्वारा होता है, यह इस अध्ययन में बताया जाता है । इस सम्बन्ध से आये हुए अध्ययन के चार अनुयोग द्वार हैं। उनमें उपक्रम में अर्थाधिकार यह है - इसमें शिष्यों का गुण बताया गया है तथा धर्म, समाधि, मार्ग और समवसरण नामक पहले के अध्ययनों में जो वस्तु सत्य और यथार्थ तत्त्व हैं तथा जैनेतरों के जो असत्य और विपरीत तत्त्व हैं वे दोनों ही संक्षेप से यहाँ बताये जायेंगे । नामनिष्पन्न निक्षेप में इस अध्ययन का नाम याथातथ्य है । इसके विषय में नियुक्तिकार कहते हैं - . णामतहं ठवणतहं दव्यतहं चेव होइ भावतहं । दव्यतहं पुण जो जस्स सभायो होती दव्यस्स ॥१२२॥ नि०॥ भावतहं पुण नियमा णायव्वं छविहंमि भामि । अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे ॥१२३॥ नि जह सुत्तं तह अत्थो चरणं चारो तहत्ति णायव्यं । संतमि [य] पसंसाए असती पगयं दुगुंछाए ॥१२४॥नि आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोयेइ छेयवाई जमालिनासं स णासिहिति ॥१२५॥ नि ण करोति दुखमोक्खं उज्जममाणोऽवि संजमतयेसुं । तम्हा अतुक्करिसो वज्जेअय्यो जतिजणेणं ॥१२६॥ नि०
अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लङ्घनेन तथाशब्दस्य निक्षेपं कर्तनियुक्तिकारस्यायमभिप्रायः- इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्य यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवायाथातथ्यमिति तथ्यमतस्तदेव निरूप्यत इति । तत्र तथाभावस्तथ्यं यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य' सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः, कठिनलक्षणा पृथिवी, द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः स्वभावोऽचित्तद्रव्याणां च गोशीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा'उण्हे करेइ सीयं सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं एस सहावो मुणेयवो ||१||
भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया षड्विधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः-कर्मोदयापादितो गत्याद्यनुभावलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकःकर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकः- 2अप्रतिपाति-ज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपशमिको-देशोदयोपशमलक्षणः, परिणामेन निर्वृत्तः पारिणामिको-जीवाजीवभव्यत्वादिलक्षणः, पञ्चानामपि भावानां द्विकादिसंयोगान्निष्पन्नः सान्निपातिक इति । यदिवा- 'अध्यात्मनि' आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यं, तद्यथाज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः, दर्शनतथ्यं शङ्काद्यतिचाररहितं जीवादितत्त्वश्रद्धानं, चारित्रतथ्यं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानं, विनयतथ्यं अद्विचत्वारिंशद्धेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानं, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति। 1. उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरत्नादीनां एष स्वभावो ज्ञातव्यः ।। 2. ज्ञानाद्यनुगतत्वान्न वीर्यादेः पृथगुपादानम् । 3. ज्ञानेऽष्टौ दर्शने चारित्रे च तपसि विनयस्य विधेयत्वादेकादश औपचारिके सप्तमेदरूपे यद्वा क्रमेण पञ्चैकसप्तदशद्वादशसप्तभेदरूपे ।
५४७