________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने गाथा १०
श्रीसमवसरणाध्ययनम् केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते विज्जभावं अणहिज्जमाणा, आहंसु विज्जापरिमोक्खमेव
॥१०॥ छाया - कानिचिनिमित्तानि सत्यानि भवन्ति, केषाशित्तत् विपयेति ज्ञानम् ।
ते विद्याभावमनधीयाना आहूर्विद्यापरिमोक्षमेव ।। अन्वयार्थ - (केई निमित्ता तहिया भवंति) कोई निमित्त सत्य होता है (केसिंचि तं णाणं विप्पडिएति) और किसी किसी निमित्तवादी का वह ज्ञान विपरीत होता है । (ते विज्जभावं अणहिज्जमाणा) यह देखकर विद्या का अध्ययन न करते हुए अक्रियावादी (विज्जापरिमोक्खमेव आहेसु) विद्या के त्याग को ही कल्याणकारक कहते हैं।
भावार्थ - कोई निमित्त सत्य होता है और किसी - किसी निमित्तवादी का वह ज्ञान विपरीत होता है । यह देखकर विद्या का अध्ययन न करते हुए अक्रियावादी विद्या के त्याग को ही कल्याणकारक कहते हैं।
टीका - ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि - चतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उद्देष्यते किं
निमित्तशास्त्रविदाम्?, अत्र चाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्धत्रयोदश शतानि सूत्रं तावन्त्येव सहस्राणि वृत्तिस्तावत्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रं, तत्परिमाणलक्षा वृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह - "केई" त्यादि, छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिनिमित्तानि "तथ्यानि" सत्यानि भवन्ति, केषाञ्चित्तु निमित्तानां निमित्तवेदिनां वा 'बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं "विपर्यासं" व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किं पुनस्तीर्थिकानां?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य "ते" अक्रियावादिनो "विद्यासद्धावं" विद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते "आहेसु विज्जापलिमोक्खमेव" विद्यायाः - श्रुतस्य व्यभिचारेण तस्य परिमोक्षं - परित्यागमाहुः - उक्तवन्तः, यदिवा – क्रियाया अभावाद्विद्यया - ज्ञानेनैव मोक्षं - सर्वकर्मच्युतिलक्षणमाहुरिति । क्वचिच्चरमपादस्यैवं पाठः, "जाणासु लोगंसि वयंति मंद"त्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् स्वयं जानीमः, एवं "मंदाः" जडा वदन्ति, न च निमित्तस्य तथ्यता, तथाहि - कस्यचित्क्वचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनाद्, सच्छकुनसद्भावेऽपि कार्यविधातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितत्वमुद्घोष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते, तथाहि - मरुमरीचिकानिचये जलग्राहि प्रत्यक्षं व्यभिचरतीतिकृत्वा किं सत्यजलग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति ?, न हि मशकवर्तिरग्नि-सिद्धावुपदिश्यमाना व्यभिचारिणीति सत्यधूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, ततश्च प्रमातुरयमपराधो न प्रमाणस्य, एवं सुविवेचितं निमित्तश्रुतमपि न व्यभिचरतीति. यश्च क्षतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङक्यते सोऽनपपन्नः. तथाहि कार्याकतात क्षतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तराले इतरशोभननिमित्त-बलात्संजातेत्येवमवगन्तव्यं, शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुतिः - किल बुद्धः स्वशिष्यानाहूयोक्तवान्, यथा - "द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं" ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः, यथा "मा गच्छत यूयम्, इहाद्यैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति" तदेवमन्तराऽपरनिमित्तसद्भावात्तद्व्यभिचारशङ्केति स्थितम् ॥१०॥
टीकार्थ - ज्योतिष शास्त्र का ज्ञान झूठा भी देखा जाता है, क्योंकि चौदह पूर्व को जाननेवाले पुरुष भी छः स्थानो में भूल करते हैं, यह जैन शास्त्र कहता है तब फिर अष्टांग निमित्त के जाननेवालों की भूल करने की
ही क्या है ? तथा अङ्ग से जूदा निमित्त शास्त्रों के १२५० साढ़े बारह सौ अनुष्टुप श्लोक हैं और उन श्लोकों की साढ़े बारह हजार वृत्ति है एवं उनकी परिभाषा साढ़े बारह लाख है तथा अङ्गों के सूत्र साढ़े बारह हजार हैं और उनकी वृत्ति साढ़े बारह लाख है और वृत्ति अपरिमित है, इस प्रकार अष्टांग निमित्त जाननेवालों के 1. बौधवैकल्यात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात् ।
५२१