________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने गाथा ६
श्रीसमवसरणाध्ययनम् षडायतन कहते हैं। श्रोत्र आदि इन्द्रिय जिसके उपादान कारण यानी आश्रवद्वार हैं, उसे षडायतन कहते हैं, इस प्रकार बौद्धों ने कर्म को षडायतन भी कहा है ॥५॥
- साम्प्रतमेतदूषणायाह -
- अब इस मत को दूषित करने के लिए शास्त्रकार कहते हैं - ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवे मणूसा, भमंति संसारमणोवदग्गं
॥६॥ छाया - त एवमाचक्षतेऽबुध्यमानाः, विरूपरूपाण्यक्रियावादिनः ।
यमादाय बहवो मनुष्याः भ्रमन्ति संसारमनवदग्रम् ॥ अन्वयार्थ - (अबुज्झमाणा ते अकिरियवाई) वस्तु स्वरूप को न समझनेवाले वे अक्रियावादी (विरुवरुवाणि एवमक्खंति) नाना प्रकार के शास्त्रों का कथन करते हैं (जे मायइत्ता बहवे मणूसा) जिन शास्त्रों का आश्रय लेकर बहुत से मनुष्य (अणोवदग्गं संसारं भमंति) अनन्तकाल तक संसार भ्रमण करते हैं।
भावार्थ - वस्तु स्वरूप को न जाननेवाले वे अक्रियावादी नाना प्रकार के शास्त्रों का कथन करते हैं, जिन शास्त्रों का आश्रय लेकर बहुत से मनुष्य अनन्त काल तक संसार में भ्रमण करते हैं।
टीका - 'ते' चार्वाकबौद्धादयोऽक्रियावादिन एवमाचक्षते' सद्भावमबुध्यमाना मिथ्यामलपटलावृतात्मानः परमात्मानं च व्युद्ग्राहयन्तो "विरूपरूपाणि" नाना प्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा - दानेन महाभोगाच देहिनां सुरगतिश्च शीलेन । भावनया च विमुकिस्तपसा सर्वाणि सिध्यन्ति ||१||
तथा पृथिव्यापस्तेजोवायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः कश्चित्सुखदुःखभागात्मा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वप्नेन्द्रजालमरुमरीचिकानिचयद्विचन्द्रादि-प्रतिभासरूपत्वात्सर्वस्येति। तथा "सर्वं क्षणिकं निरात्मकं" "मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावना" इत्यादीनि नानाविधानि शास्त्राणि व्युद्ग्राहयन्त्यक्रियात्मानोऽक्रियावादिन इति । ते च परमार्थमबुध्यमाना यद्दर्शनम् "आदाय" गृहीत्वा बहवो मनुष्याः संसारम् "अनवदग्रम्" अपर्यवसानमरहट्टघटीन्यायेन "भ्रमन्ति" पर्यटन्ति, तथाहि - लोकायतिकानां सर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तम् -
"तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति ।
साऽस्ति चेल्सैव नस्तत्वं, तल्सिद्धौ सर्वमस्तु सत् ॥२॥" न च प्रत्यक्षमेवैकं प्रमाणम्, अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धः, ततः सर्वसंव्यवहारोच्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकत्वेन वस्तुत्वाभावः प्रसजति, तथाहि - यदेवार्थक्रियाकारि तदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियां करोति, क्षणिकत्वहानेः, नापि यौगपद्येन, (तत्कार्याणां) एकस्मिन्नेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, न च ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायं, यच्चोक्तं - "दानेन महाभोगा" इत्यादि तदार्हतैरपि कथञ्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति।।६।।
टीकार्थ - अक्रियावादी चार्वाक और बौद्ध आदि पूर्वोक्त रीति से अक्रियावाद का वर्णन करते हैं । वस्तुतः वे वस्तु तत्त्व को नहीं समझते हैं। उनका हृदय मिथ्यात्वरूपी मल समूह से ढंका हुआ है । वे अपना सिद्धान्त दूसरे को तथा अपने को ग्रहण कराते हुए नाना प्रकार के शास्त्रों की प्ररूपणा करते हैं। जैसे कि वे कहते हैं1. नास्ति प्र०।
५१६