________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने गाथा ४
श्रीसमवसरणाध्ययनम् को न समझकर ऐसा कहते हैं। इसी तरह कर्मबन्ध की आशङ्का करनेवाले अक्रियावादी भूत और भविष्य काल के द्वारा वर्तमान को उड़ाकर क्रिया का निषेध करते हैं।
टीका - संख्यानं संख्या - परिच्छेदः उप - सामीप्येन संख्या उपसंख्या - सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया - अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रह-ग्रस्ता इति एतद् - यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच्च ते महामोहाच्छादिता "उदाहः" उदाहृतवन्तः - यथैवं सर्वस्य विनयप्रतिपत्त्या स्वोऽर्थः - स्वर्गमोक्षादिकः अस्माकम् "अवभासते" आविर्भवति प्राप्यते इतियावत्, अनुपसंख्योदाहृतिश्च तेषामेवमवगन्तव्या, तद्यथा - ज्ञानक्रियाभ्यां मोक्षसद्धावे सति तदपास्य विनयादेवैकस्मात्तदवाप्त्यभ्युपगमादिति, यदप्युक्तं "सर्वकल्याणभाजनं" तदपि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्त्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रह्वतया न्यत्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ताः वैनयिकाः ॥
साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह - लवं - कर्म तस्मादपशङ्कितुम् - अपसर्तुं शीलं येषां ते लवापशङ्किनो- लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तत्क्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा - बन्दा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः ||१||
तथाहि - बौद्धानामयमभ्युपगमो, यथा - "क्षणिकाः सर्वसंस्कारा" इति “अस्थितानां [च] कुतः क्रिये" त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा - विचार्यमाणाः पदार्था न कथञ्चिदप्यात्मानं विज्ञानेन समर्पयितुमलं, तथाहि - अवयवी तत्त्वान्यत्त्वाभ्यां 3 विचार्यमाणो न घटां प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूर्तस्य निराकारतया न स्वरूपं बिभर्ति, तथा चोक्तम् - यथा यथाऽर्थाचिन्त्यन्ते, विविच्यन्ते तथा - तथा । यद्येतत्स्वयमर्थभ्यो, रोचते तत्र के वयम् ? ||१||
इति, प्रच्छन्नलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः, चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेर्न क्रिया, नापि च तज्जनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावशङ्किनः सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्याः, तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया - अपरिज्ञानेनेति - एतत् पूर्वोक्तमुदाहृतवन्तः, तथैतत्त्वज्ञानेनैवोदाहृतवन्तः, तद्यथा - अस्माकमेवमभ्युपगमेऽर्थोऽवभासते - युज्यमानको भवतीति, तदेवं श्लोकपूर्वाद्धा काकाक्षिगोलकन्यायेनाक्रियावादिमतेऽप्यायोज्यमिति ॥४॥
टीकार्थ - वस्तु के ज्ञान को संख्या कहते हैं और सम्यक् प्रकार से अर्थात् वस्तु के यथार्थ स्वरूप को जानने का नाम उपसंख्या है, उसके बिना ही अर्थात् पदार्थ के यथार्थ स्वरूप को जाने बिना ही आग्रह में पड़े हुए मूर्ख विनयवादी केवल विनय से स्वर्ग और मोक्ष की प्राप्ति बताते हैं। वे महामोह से आच्छादित होकर यह कहते हैं कि "सब के प्रति विनय करने से ही हम को स्वर्ग और मोक्ष की प्राप्ति होगी" परन्तु यह वे बिना विचारे कहते हैं, इस विषय में उदाहरण यह है कि ज्ञान और क्रिया इन दोनों के द्वारा मोक्ष की प्राप्ति होती है परन्तु इसे छोड़कर वे केवल विनय से स्वर्ग और मोक्ष की प्राप्ति बताते हैं । तथा वे जो यह कहते है कि - विनय समस्त कल्याणों का मूल कारण है, सो सम्यग्दर्शन आदि होने पर ही विनय कल्याण का कारण होता है, अकेला नहीं होता । जो सम्यग्दर्शन आदि से रहित है, वह विनययुक्त होकर सब किसी के तिरस्कार का पात्र होता है, अतः केवल विनय से स्वर्ग या मोक्ष की प्राप्ति नहीं होती है, इसलिए केवल विनय से स्वर्ग और मोक्ष की प्राप्ति बतानेवाले विनयवादी अज्ञान से ढंके हुए हैं, उनको इष्ट अर्थ की प्राप्ति नहीं होती है । विनयवादी कह दिये गये अब शास्त्रकार अक्रियावादियों के दर्शन का निराकरण करने के लिए गाथा का उत्तरार्ध कहते हैं - "लव" कर्म 1. लवावशङ्किनः । अग्रेऽपि अत्र गाथायां । 2. तत्त्वाऽतत्त्वाभ्यां प्र०। 3. अवयवेभ्योऽभिन्नत्वेतराभ्यां । 4. लोकायकिता बौद्धाः सांख्याः प्र०।
५११