SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने प्रस्तावना श्रीसमवसरणाध्ययनम् तथाहि- अक्रियावाद्यत्यन्तनास्तिकोऽध्यक्षसिद्धं जीवाजीवादिपदार्थजातमपनुवन् मिथ्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्शके ज्ञानपञ्चकेऽज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् ? , तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानक्रियासाध्यां सिद्धिमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोऽवगन्तव्याः। ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तः तत्कथमिह सम्यग्दृष्टित्वेनोच्यत इति, उच्यते स तत्रास्त्येव जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वस्यास्य जगतः कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एवेत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वं, तथाहि - अस्त्येव जीव इत्वेवमस्तिना सह जीवस्य सामानाधिकरण्यात् यद्यदस्ति तत्तज्जीव इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितं, तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भाव: ? न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति सिकतातैलवत्, नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतत्, तथा चोक्तम् - "काली सहाव णियई पुव्वकयं पुरिस कारणेगंता । मिच्छत्तं ते चेव उ समासओ होंति संमत्तं ||१|| सव्वेवि य कालाई इह समुदायेण साहगा भणिया | जुज्जति य एमेव य सम्मं सव्वस्स कज्जस्स ||२|| न हि कालादीहिंतो केवलरहिं तु जायए किंचि । इह मुग्गरंधणादिवि वा सव्वे समुदिता हेऊ ॥३॥ जह गलक्खणगुणा वेरुलियादी मणी विसंजुत्ता | रयणावलिववएसं ण लहंति महग्घमुल्लावि ||४|| तह णिययवादसुविणिच्छियावि अण्णोऽण्णपक्खनिरवेक्खा / सम्मदंसणसद्दं सव्वेऽवि णया ण पाविंति ||५|| जह पुण ते चेव मणी जहा गुणविसेस भागपडिबद्धा । रयणावलित्ति भण्णइ चयंति पाडिकसण्णाओ ||६|| वह सव्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा । सम्महंसणस लभंति ण विसेन्ससण्णाओ ||७| तम्हा मिच्छद्दिट्ठी सव्वेवि णया सपक्खपडिबद्धा | अण्णाण्णनिस्सिया पुण हवंति सम्मत्त सभावा ||८|| यत एवं तस्मात्त्यक्त्वा मिथ्यात्ववादं - कालादिप्रत्येकैकान्तकारणरूपं "सेवध्वम्" अङ्गीकुरुध्वं "सम्यग्वादं" परस्परसव्यपेक्षकालादिकारणरूपम् "इम" मिति मयोक्तं प्रत्यक्षासन्नं "सत्यम्" अवितथमिति ॥ ११९ - १२१ ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम् - टीकार्थ सम् अव पूर्वक "सृ गतौ" धातु से ल्युट् प्रत्यय होकर समवसरण शब्द बना है । एक स्थान में इकट्ठे होना समवसरण शब्द का अर्थ है । उस समवसरण में भी (केवल समाधि में ही नहीं) नाम आदि छः 1. कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात् मिथ्यात्वं समासतो भवन्ति सम्यक्त्वं ।।9।। 2. सर्वेऽपि च कालादय इह समुदायेन साधका भणिताः । युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य ||२|| नैव कालादिभिः केवलैस्तु जायते किञ्चित् । इह मुद्गरन्धनाद्यपि तत्सर्वेऽपि समुदिता हेतवः ||३|| यथानेकलक्षणगुणा वैडूर्यादयो मणयो विसंयुताः । रत्नावलीव्यपदेशं न लभन्ते महार्घमूल्या अपि ||४|| तथा निजकवादसुविनिश्चित अपि अन्योऽन्यपक्षनिरपेक्षाः सम्यग्दर्शनशब्दं सर्वेऽपि नया न प्राप्नुवन्ति ॥ ५॥ यथा पुनस्ते चैव मणयो यथा गुणविशेषभागप्रतिबद्धाः । रत्नाव भण्यन्ते त्यजन्ति प्रत्येकसंज्ञाः || ६ || तथा सर्वेऽपि नयवादा यथानुरूपविनियुक्तवक्तव्याः । सम्यग्दर्शनशब्दं लभन्ते न विशेषसंज्ञाः ||७|| तस्मान्मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः । अन्योऽन्यनिश्रिताः पुनर्भवन्ति सम्यक्त्वं सद्भावात् ॥ ८॥ - ४९९
SR No.032700
Book TitleSutrakritanga Sutra Part 02
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy