________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने प्रस्तावना
श्रीसमवसरणाध्ययनम् को वेत्ति? किं वा ज्ञातेन ? ७, एवमजीवादिष्वपि सप्त भङ्गकाः, सर्वेऽपि मिलितास्त्रिषष्टिः, तथाऽपरेऽमी चत्वारो भङ्गकाः, तद्यथा - सती भावोत्पत्तिः को वेत्ति ? किं वाऽनया ज्ञातया ? १, असती भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? २. सदसती भावोत्पत्तिः को वेत्ति किं वाज्नया ज्ञातया ? ३. अवक्तव्या भावोत्पत्तिः को वेत्ति किं वाऽनया ज्ञातया? ४, सर्वेऽपि सप्तषष्टिरिति, उत्तरं भङ्गकत्रयमुत्पन्नभावावयवापेक्षमिह भावोत्पत्तौ न संभवतीति नोपन्यस्तम्, उक्तं च - "अज्ञानिकवादिमतं नव जीवादीन सदादिसप्तविधान् । भावोत्पत्तिः सदसद् द्वैधाऽवाच्या च को वेत्ति?||१||"
इदानीं वैनयिकानां विनयादेव केवलात्परलोकमपीच्छतां द्वात्रिंशदनेन प्रक्रमेण योज्याः, तद्यथा - सुरनृपतियतिज्ञातिस्थविराधममातपितष मनसा वाचा कायेन दानेन (च) चतर्विधो विनयो विधेयः, सर्वेऽप्यष्टौ मिलिता द्वात्रिंशदिति, उक्तं च - “वैनयिकमतं विनयधेतीवाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ||१||"
सर्वेऽप्येते क्रियाऽक्रियाऽज्ञानिवैनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्ट्यधिकानि प्रावादुकमतशतानि भवन्ति। तदेवं वादिनां मतभेदसंख्यां प्रदाधुना तेषामध्ययनोपयोगित्वं दर्शयितुमाह - "तेषां" पूर्वोक्तवादिनां मतम् - अभिप्रायस्तेन यदनुमतं - पक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन "प्रज्ञापना" प्ररूपणा "वर्णिता" प्रतिपादिता "इह" अस्मिन्नध्ययने गणधरैः, किमर्थमिति दर्शयति - तेषां यः सद्भावः - परमार्थस्तस्य निश्चयो - निर्णयस्तदर्थ, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुर्गणधराः, तथाहि-वादिनां सम्यगवसरणं-मेलापकस्तन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति ॥ इदानीमेतेषां सम्यगमिथ्यात्ववादित्वं विभागेन यथा भवति तथा दर्शयितुमाह - सम्यग् - अविपरीता दृष्टिः दर्शनं पदार्थपरिच्छित्तिर्यस्यासौ सम्यग्दृष्टिः, कोऽसावित्याह- क्रियाम् - अस्तीत्येवंभूतां वदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद् "अस्थित्ति किरियवादी" त्यनेन प्राक् प्रसाधितं समनूद्य निरवधारणतया] सम्यग्दृष्टित्वं विधीयते, तस्यासिद्धत्वादिति, तथाहि - अस्ति लोकालोकविभागः, अस्त्यात्मा अस्ति पुण्यपापविभागः, अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं, अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभववृद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम् - "कालः पचति भूतानी" त्यादि, तथाऽस्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभव्यत्वमूर्तत्वामूर्त्तत्वानां स्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वादिस्वरूपापादनादिति, तथा चोक्तम् - "कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणत्वेनाश्रीयते, तथा - तथा पदार्थानां नियतत्वात्, तथा चोक्तम् - "प्राप्तव्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं, तच्च शुभाशुभमिष्टानिष्टफलं कारणं, तथा चोक्तम् - “यथा यथा पूर्वक्रतस्य कर्मणः, फलं निधानस्थमिहोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥"
तथा "स्वकर्मणा युक्क एव, सर्वा ह्युत्पद्यते जनः । स तथाऽऽकृष्यते तेन, न यथा स्वयमिच्छति ||१||"
इत्यादि । तथा पुरुषकारोऽपि कारणं, यस्मान्न पुरुषकारमन्तरेण किञ्चित्सिध्यति, तथा चोक्तम् - “न दैवमिति संचिन्न्य, त्यजेदुधममात्मनः । अनुधमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ! ||१||"
तथा - "उद्यमाच्चारुचित्रानि !, नरो भद्राणि पश्यति । उद्यमात्क्रमिकीटोऽपि, भिनत्ति महतो दुमान् ||२||"
तदेवं सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथाऽऽत्मपुण्यपापपरलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवादवैनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः,
४९८