________________
श्रीसमवसरणाध्ययनम्
-
सूत्रकृताङ्गे भाषानुवादसहिते द्वादशमध्ययने प्रस्तावना कौपशमिकक्षायोपशमिकपारिणामिकभावसद्भावाच्चेति, पञ्चकसंयोगस्तु क्षायिकसम्यग्दृष्टीनामुपशमश्रेण्यां समस्तोपशान्तचारित्रमोहानां भावपञ्चकसद्भावाद्विज्ञेय इति, तदेवं भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगात्संभविनः सान्निपातिकभेदाः षड् भवन्ति, एत एव त्रिकसंयोगचतुष्कसंयोगगतिभेदात्पञ्चदशधा प्रदेशान्तरेऽभिहिता इति । तदेवं षड्विधे भावे भावसमवसरणं भावमीलनमभिहितम्, अथवा अन्यथा भावसमवसरणं निर्युक्तिकृदेव दर्शयति - क्रियां - जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः, एतद्विपर्यस्ता अक्रियावादिनः, तथा अज्ञानिनो ज्ञाननिह्नववादिनः तथा "वैनयिका" विनयेन चरन्ति तत्प्रयोजना वा वैनयिकाः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तद्भावसमवसरणमिति, एतच्च स्वयमेव नियुक्तिकारोऽन्त्यगाथया कथयिष्यति । साम्प्रतमेतेषामेवाभिधानान्वर्थतादर्शनद्वारेण स्वरूपमाविष्कुर्वन्नाह • जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारण-क्रियाभ्युपगमो येषां ते अस्तीति क्रियावादिनः, ते चैवंवादित्वान्मिथ्यादृष्टयः, तथाहि यदि जीवोऽस्त्येवे (वेऽस्तित्वमेवे) त्येवमभ्युपगम्यते, ततः सावधारणत्वान्न कथञ्चिन्नास्तीत्यतः स्वरूपसत्तावत्पररूपापत्तिरपि स्याद्, एवं च नानेकं जगत् स्यात्, न चैतद्दृष्टमिष्टं वा । तथा नास्त्येव जीवादिकः पदार्थ इत्येवंवादिनोऽक्रियावादिनः, तेऽप्यसद्भूतार्थ- प्रतिपादनान्मिथ्यादृष्टय एव, तथाहि - एकान्तेन जीवास्तित्वप्रतिषेधे कर्तुरभावान्नास्तीत्येतस्यापि प्रतिषेधस्याभाव:, तदभावाच्च सर्वास्तित्वमनिवारितमिति । तथा न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, ते ह्यज्ञानमेव श्रेय इत्येवं वदन्ति, एतेऽपि मिथ्यादृष्टय एव, तथाहि - अज्ञानमेव श्रेय इत्येतदपि न ज्ञानमृते भणितुं पार्यते, तदभिधानाच्चावश्यं ज्ञानमभ्युपगतं तैरिति । तथा वैनयिका विनयादेवं केवलात्स्वर्गमोक्षावाप्तिमभिलषन्तो मिथ्यादृष्टयो, यतो न ज्ञानक्रियाभ्यामन्तरेण मोक्षावाप्तिरिति । ऐषां च क्रियावाद्यादीनां स्वरूपं तन्निराकरणं चाचारटीकायां विस्तरेण प्रतिपादितमिति नेह प्रतन्यते ॥ ११७- ११८ ।। साम्प्रतमेतेषां भेदसंख्यानिरूपणार्थमाह . असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ ११९॥ नि० तेसि मताणुमएणं पन्नवणा वण्णिया इहऽज्झयणे । सम्भावणिच्छयत्थं समोसरणमाहु तेणं तु ॥१२०॥ नि० सम्मद्दिट्ठी किरियावादी मिच्छा य सेसगा बाई । जहिऊण मिच्छवायं से यह वायं इमं सच्चं ॥ १२१ ॥ नि० क्रियावादिनामशीत्यधिकं शतं भवति, तच्चानया प्रक्रियया, तद्यथा जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः स्वतः परत इति भेदद्वयं ततोऽप्यधो नित्यानित्यभेदद्वयं ततोऽप्यधस्तात्परिपाटया कालस्वभावनियतीश्वरात्मपदानि पञ्च व्यवस्थाप्यन्ते, ततश्चैवं चारणिकाप्रक्रमः, तद्यथा अस्ति जीवः स्वतो नित्यः कालतः, तथाऽस्ति जीवः स्वतोऽनित्यः कालत एव, एवं परतोऽपि भङ्गकद्वयं, सर्वेऽपि च चत्वारः कालेन लब्धाः, एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येकं चतुर एव लभन्ते, ततश्च पञ्चापि चतुष्कका विंशतिर्भवन्ति, साऽपि जीवपदार्थेन लब्धा, एवमजीवादयोऽप्यष्टौ प्रत्येकं विंशतिं लभन्ते, ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवतीति । इदानीमक्रियावादिनां न सन्त्येव जीवादयः पदार्था इत्येवमभ्युपगमवतामनेनोपायेन चतुरशीतिरवगन्तव्या, तद्यथा जीवादीन् पदार्थान् सप्ताभिलिख्य तदधः स्वपरभेदद्वयं व्यवस्थाप्यं, ततोऽप्यधः कालयदृच्छानियति-स्वभावेश्वरात्मपदानि षड् व्यवस्थाप्यानि, भङ्गकानयनोपायस्त्वयं- नास्ति जीवः स्वतः कालतः, तथा नास्ति जीवः परतः कालतः, एवं यदृच्छानियतिस्वभावेश्वरात्मभिः प्रत्येकं द्वौ द्वौ भङ्गको लभ्येते, सर्वेऽपि द्वादश, तेऽपि च जीवादिपदार्थसप्तकेन गुणिताश्चतुरशीतिरिति, तथा चोक्तम्“कालयच्च्छानियतिस्वभावेश्वरात्मतचतुरशीतिः । नास्तिकवादिगणमते न सन्ति भावाः खपरसंस्थाः ||१||” साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलं बहुदोषवच्चेत्येवमभ्युपगमवतां सप्तषष्टिरनेनोपायेनावगन्तव्या जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः संस्थाप्या:- सत्, असत्, सदसत्, अवक्तव्यं, सदवक्तव्यं, असदवक्तव्यं सदसदवक्तव्यमिति, अभिलापस्त्वयं - सन् जीव: को वेत्ति ? किं वा तेन ज्ञातेन ! १, असन् जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? २, सदसन् जीव: को वेत्ति ? किं वा तेन ज्ञातेन ! ३, अवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? ४, सदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? ५, असदवक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? ६, सदसदवक्तव्यो जीवः
-
-
४९७