________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने प्रस्तावना
श्रीसमवसरणाध्ययनम् ||अथ द्वादशं श्रीसमवसरणाध्ययनं प्रारभ्यते ।।
उक्तमेकादशमध्ययनं, साम्प्रतं द्वादशमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने मार्गोऽभिहितः, स च कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते, अतः कुमार्गव्युदासं चिकीर्षुणा तत्स्वरूपमवगन्तव्यमित्यतस्तत्स्वरूपनिरूपणार्थमिदमध्ययनमायातम्, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा - कुमार्गाभिधायिनां क्रियाऽक्रियाऽज्ञानिकवैनयिकानां चत्वारि समवसरणानीह प्रतिपाद्यन्ते, नामनिष्पन्ने तु निक्षेपे समवसरणमित्येतन्नाम तन्निक्षेपार्थं निर्य क्तिकृदाह -
ग्यारहवाँ अध्ययन कहा गया, अब बारहवाँ आरम्भ किया जाता है । इसका सम्बन्ध यह है - ग्यारहवें अध्ययन में मार्ग कहा गया है, परन्तु कुमार्ग छोड़ने से सम्यग् मार्ग प्राप्त होता है अतः कुमार्ग छोड़ने की इच्छा
नेवाले को कुमार्ग के स्वरूप का ज्ञान प्राप्त करना चाहिए। अतः कुमार्ग का स्वरूप बताने के लिए इस अध्ययन का आरम्भ किया जाता है । इसके उपक्रम आदि चार अनुयोगद्वार है, उसमें उपक्रम में अधिकार यह है - इस अध्ययन में कुमार्ग की प्ररूपणा करनेवाले क्रियावादी, अक्रियावादी, अज्ञानवादी और विनयवादियों के चार समवसरण बताये जाते हैं । नाम निक्षेप में इस अध्ययन का समवसरण नाम है, उसका निक्षेप बताने के लिए नियुक्तिकार कहते है - समवसरणेऽवि छक्कं सच्चित्ताचितमीसगं दव्ये । नेतंमि जंमि खेत्ते काले जं जंमि कालंमि ॥११६॥ नि। भायसमोसरणं पुण णायव्वं छव्विहमि भावंमि । अहवा किरिय अकिरिया अन्नाणी चेव येणइया ॥११॥ नि० अथिति किरिययादी ययंति पत्थि अकिरियवादी य । अण्णाणी अण्णाणं विणइत्ता येणइययादी ॥११८॥ नि
टीका - समवसरणमिति "सृ गता" वित्येतस्य धातोः समवोपसर्गपूर्वस्य ल्युडन्तस्य रूपं, सम्यग् - एकीभावेनावसरणम्एकत्र गमनं मेलापकः समवसरणं तस्मिन्नपि, न केवलं समाधौ, षड्विधो नामादिको निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यविषयं पुनः समवसरणं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिविधं, सचित्तमपि द्विपदचतुष्पदापदभेदात्त्रिविधमेव, तत्र द्विपदानां साधुप्रभृतीनां तीर्थकृज्जन्मनिष्क्रमणप्रदेशादौ मेलापकः, चतुष्पदानां गवादीनां निपानप्रदेशादौ, अपदानां तु वृक्षादीनां स्वतो नास्ति समवसरणं, विवक्षया तु काननादौ भवत्यपि, अचित्तानां तु व्यणुकाद्यभ्रादीनां तथा मिश्राणां सेनादीनां समवसरणसद्भावोऽवगन्तव्य इति । क्षेत्रसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्ति व्याख्यायते वा समवसरणं यत्र तत्क्षेत्रप्राधान्यादेवमुच्यते । एवं कालसमवसरणमपि द्रष्टव्यमिति ॥११६।।
इदानीं भावसमवसरणमधिकृत्याह - भावानाम्-औदयिकादीनां समवसरणम् - एकत्र मेलापको भावसमवसरणं, तत्रौदयिको भाव एकविंशतिभेदः, तद्यथा - गतिश्चतुर्धा कषायाश्चतुर्विधाः एवं लिङ्गं त्रिविधं, मिथ्यात्वाज्ञानासंयतत्वासिद्धत्वानि प्रत्येकमेकैकविधानि. लेश्याः कष्णादिभेदेन षडविधा भवन्ति । औपशमिको द्विविधः सम्यक्त्वचारित्रोपशमभेदात । क्षायोपशमिकोऽप्यष्टादशभेदभिन्नः, तद्यथा - ज्ञानं मतिश्रुतावधिमनःपर्यायभेदाच्चतर्धा अज्ञानं मत्यज्ञानश्रताज्ञानविभङ्गभेदात्त्रिविधं दर्शनं चक्षुरचक्षुरवधिदर्शनभेदात्रिविधमेव, लब्धिर्दानलाभभोगोपभोगवीर्यभेदात्पञ्चधा, सम्यक्त्वचारित्रसंयमासंयमाः प्रत्येकमेकप्रकारा इति । क्षायिको नवप्रकारः, तद्यथा - केवलज्ञानं केवलदर्शनं दानादिलब्धयः पञ्च, सम्यक्त्वं चारित्रं चेति । जीवत्वभव्यत्वाभव्यत्वादिभेदात्पारिणामिकस्त्रिविधः । सान्निपातिकस्तु द्वित्रिचतुष्पञ्चकसंयोगैर्भवति, तत्र द्विकसंयोगः सिद्धस्य क्षायिकपारिणामिकभावद्वयसद्धावादवगन्तव्यः, त्रिकसंयोगस्तु मिथ्यादृष्टिसम्यग्दृष्ट्यविरतविरतानामौदयिकक्षायोपशमिकपारिणामिकभावसद्धावादवगन्तव्यः, तथा भवस्थकेवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावसद्धावाद्विज्ञेय इति, चतुष्कसंयोगोऽपि क्षायिकसम्यग्दृष्टीनामौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावसद्भावात्, तथौपशमिकसम्यग्दृष्टीनामौदयि
४९६