________________
सूत्रकृताङ्गेभाषानुवादसहिते एकादशमध्ययने प्रस्तावना
श्रीमार्गाध्ययनम् निष्ठा द्वेधा, तद्यथा - प्रशस्तः सुगतिफलोऽप्रशस्तश्च दुर्गतिफल इति । इह तु पुनः "प्रस्तावः" अधिकारः "सुगतिफलेन" प्रशस्तमार्गेणेति ॥ तत्राप्रशस्तं दुर्गतिफलं मार्ग प्रतिपिपादयिषुस्तत्कर्तृन्निदिदिक्षुराह-दुर्गतिः फलं यस्य स दुर्गतिफलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिषष्टयधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टुत्वं च तेषां मिथ्यात्वोपहतदृष्टितया विपरीतजीवादितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगन्तव्या, तद्यथा - असियसयं किरियाणं अकिरियवाईण होई चुलसीई । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ||१||
तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतं मागं भङ्गद्वारेण निरूपयितुमाह, तद्यथा - एकः क्षेमो मार्गस्तस्करसिंहव्याघ्राद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च समत्वात्तथा छायापुष्पफलववृक्षोपेतजलाश्रयाकुलत्वाच्च १, तथा परः क्षेमो निश्चौरः किंत्वक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगर्ताशताकुलत्वेन विषमत्वात् २, तथाऽपरोऽक्षेमस्तस्करादिभयोपेतत्वात्क्षेमरूपश्चोपलशकलाद्यभावतया समत्वात् ३, तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहव्याघ्रतस्करादिदोषदुष्टत्वात्तथा गर्तापाषाणनिम्नोन्नतादिदोषत्वाच्चेति ४, एवं भावमार्गोऽप्यायोज्यः, तद्यथा - ज्ञानादिसमन्वितो द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निह्नवाः, परतीर्थिका गृहस्थाश्चरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया "चतुष्ककं" भङ्गकचतुष्टयं मार्गादिष्वायोज्यं, आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति ॥१०९-१११।। सम्यग्मिथ्यात्वमार्गयोः स्वरूपनिरूपणायाह - सम्मप्पणिओ मग्गो गाणे तह दंसणे चरिते य । चरगपरिव्वायादीचिण्णो मिच्छत्तमग्गो उ ॥११२॥ नि इड्डिरससायगुरुया छज्जीवनिकायघायनिरया (य) । जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥११३॥ नि। तवसंजमप्पहाणा गुणधारी जे वयंति सब्मावं । सव्वजगज्जीवहियं तमाहु सम्मप्पणीयमिणं ॥११४॥ नि०। पंथो मग्गो णाओ विही थिती सुगती हियं (तह) सुहं च । पत्थं सेयं णिव्युइ णिव्याणं सिवकर चेव ॥११५॥नि।
सम्यग्ज्ञानं दर्शनं चारित्रं चेत्ययं त्रिविधोऽपि भावमार्गः "सम्यग्दृष्टिभिः" तीर्थकरगणधरादिभिः सम्यग्वा - यथावस्थितवस्तुतत्त्वनिरुपणया प्रणीतस्तैरेव (च) सम्यगाचीर्ण इति, चरकपरिव्राजकादिभिस्तु "आचीर्णः" आसेवितो मार्गो मिथ्यात्वमार्गोऽप्रशस्तमार्गो भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनत्वेन विशेषणार्थ इति ॥ स्वयूथ्यानामपि पार्श्वस्थादीनां षड्जीवनिकायोपमर्दकारिणां कुमार्गाश्रितत्वं दर्शयितुमाह-ये केचन अपुष्टधर्माणः शीतलविहारिणः
काः' गरुकर्माण आधाकर्माद्यपभोगाभ्यपगमेन षडजीवनिकायव्यापादनरताश्च अपरेभ्यो"मार्ग" मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहि-शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीर्थिकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि स्वयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किं पुनस्तीर्थिका इति ॥ प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह- तपः - सबाह्याभ्यन्तरं द्वादशप्रकारं तथा संयमः - सप्तदशभेदः पञ्चाश्रवविरमणादिलक्षणस्ताभ्यां प्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवंभूता यं "सद्धावं" परमार्थं जीवाजीवादिलक्षणं "वदन्ति" प्रतिपादयन्ति, किंभूतं ! - सर्वस्मिन् जगति ये जीवास्तेभ्यो हितं - पथ्यं तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यग्मार्गज्ञाः "सम्यग्" अविपरीतत्वेन प्रणीतम् “आहुः" उक्तवन्त इति ।। साम्प्रतं सन्मार्गस्यैकार्थिकान् दर्शयितुमाह - देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्त्वावाप्तिरूपोऽवगन्तव्यः १. तथा "मार्ग" इति पूर्वस्माद्विशुद्धया विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः २. तथा "न्याय" इति निश्चयेनायनं - विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रैण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत इति ३. तथा "विधि" रिति विधानं विधिः सम्यग्ज्ञानदर्शनयोर्योगपद्येनावाप्तिः ४. तथा "धृति"रिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५. तथा 1.अशीतिशतं क्रियावादिनामक्रियावादिनां भवति चतुरशीतिः अज्ञानिकानां सप्तषष्टिनयिकानां च द्वात्रिंशत् ।।9। 2. चारित्रा० प्र०।
४६७