________________
सूत्रकृताङ्गेभाषानुवादसहिते एकादशमध्ययने प्रस्तावना
श्रीमार्गाध्ययनम्
॥ अथ एकादशं श्रीमार्गाध्ययनं प्रारभ्यते ।
उक्तं दशममध्ययनं, तदनन्तरमेकादशमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने समाधिः प्रतिपादितः, स च ज्ञानदर्शनतपश्चारित्ररूपो वर्तते, भावमार्गोऽप्येवमात्मक एवेत्यतो मार्गोऽनेनाध्ययनेन प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथाप्रशस्तो ज्ञानादिको भावमार्गस्तदाचरणं चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थ नियुक्तिकृदाह
दशम अध्यन कहने के पश्चात् ग्यारहवाँ अध्ययन कहा जाता है। इसका सम्बन्ध यह है - गत अध्ययन में समाधि कही गयी है वह, ज्ञान, दर्शन, चारित्र और तप रूप है। तथा भावमार्ग भी यही है। वह इस अध्ययन में बताया जाता है। इस सम्बन्ध से आये हुए इस अध्ययन के उपक्रम आदि चार अनुयोगद्वार कहने चाहिए । उसमें, उपक्रम में अर्थाधिकार यह है - प्रशस्त ज्ञान आदि भावमार्ग हैं, उनका आचरण इस अध्ययन में कहा है। नामनिष्पन्न निक्षेप में इस अध्ययन का "मार्ग" नाम है, उसका निक्षेप नियुक्तिकार बताते हैं। णामं ठवणा दविए खेते काले तहेव भावे य । एसो खलु मग्गस्स य णिक्नेवो छव्यिहो होड़ ॥१०७॥ नि फलगलयंदोलणवित्तरज्जुदवणबिलपासमग्गे य । खीलगअयपक्खिपहे छत्तजलाकासदव्वंमि ॥१०८॥ नि० खेतमि जंमि खेते काले कालो जहिं हयइ जो उ । भायंमि होति दुयिहो पसत्थ तह अप्पसत्थो य ॥१०९॥नि दुविहंमिवि तिगभेदो णेओ तस्स (उ) विणिच्छओ दुविहो । सुगतिफलदुग्गतिफलो पगयं सुगतीफलेणित्थं
॥११०॥ नि दुग्गइफलवादीणं तिन्नि तिसट्ठा सताइ यादीणं । खेमे य खेमरुवे चउक्कगं मग्गमादीसु ॥११॥ नि।
___टीका - नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मार्गस्य षोढा निक्षेपः, तत्र नामस्थापने सुगमत्वादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमार्गमधिकृत्याह - फलकैर्मार्गः फलकमार्गः यत्र कर्दमादिभयात् फलकैर्गम्यते, लतामार्गस्तु यत्र लतावलम्बन गम्यते, अन्दोलनमार्गोऽपि यत्रान्दोलनेन दुर्गमतिलङ्घयते, वेत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलादौ गम्यते इति, तद्यथा चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः, रज्जुमार्गस्तु यत्र रज्ज्वा किञ्चिदतिदुर्गमतिलङ्घयते, “दवनं" ति यानं तन्मार्गो दवनमार्गः, बिलमार्गो यत्र तु गुहाद्याकारेण बिलेन गम्यते, पाशप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग इत्यर्थः, कीलकमार्गो यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते, अजमार्गो यत्र अजेन - बस्त्येन गम्यते, तत् यथा सुवर्णभूम्यां चारुदत्तो गत इति, पक्षिमार्गो यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते, छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते, जलमार्गो यत्र नावादिना गम्यते, आकाशमार्गो विद्याधरादीनाम्, अयं सर्वोऽपि फलकादिको "द्रव्ये" द्रव्यविषयेऽवगन्तव्य इति ॥१०७-१०८।।
क्षेत्रादिमार्गप्रतिपादनायाह-क्षेत्रमार्गे पर्यालोच्यमाने यस्मिन् "क्षेत्रे" ग्रामनगरादौ प्रदेशे वा शालिक्षेत्रादिके वा क्षेत्रे यो याति मार्गो यस्मिन्वा क्षेत्रे व्याख्यायते स क्षेत्रमार्गः, एवं कालेऽप्यायोज्यं ।
भावे त्वालोच्यमाने द्विविधो भवति मार्गः, तद्यथा - प्रशस्तोऽप्रशस्तश्चेति । प्रशस्ताप्रशस्तभेदप्रतिपादनायाह - "द्विविधेऽपि" प्रशस्ताप्रशस्तरूपे भावमार्गे प्रत्येकं त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप इति, "तस्य" प्रशस्ताप्रशस्तरूपस्य भावमार्गस्य "विनिश्चयो" निर्णयः फलं कार्य
४६६