________________
सूत्रकृताङ्गे भाषानुवादसहिते दशममध्ययने प्रस्तावना
श्रीसमाध्यध्ययनम्
॥ अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥
नवमानन्तरं दशममारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः, स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा धर्मे समाधिः कर्त्तव्यः सम्यगाधीयते - व्यवस्थाप्यते मोक्षं तन्मार्गं वा प्रति येनात्मा धर्मध्यानादिना स समाधिः धर्मध्यानादिकः, स च सम्यग् ज्ञात्वा स्पर्शनीयः, नामनिष्पन्नन्तु निक्षेपमधिकृत्य – निर्युक्तिकृदाह
-
४४२
नवम अध्ययन कहने के पश्चात् दशम अध्ययन आरम्भ किया जाता है । इस अध्ययन का नवम अध्ययन के साथ सम्बन्ध यह है, नवम अध्ययन में धर्म का प्रतिपादन किया है, वह धर्म, अविकल समाधि होनेपर पूर्ण होता है इसलिए अब समाधि का कथन करते हैं । इस सम्बन्ध से आये हुए इस अध्ययन के उपक्रम आदि चार अनुयोग द्वार कहने चाहिए। उनमें उपक्रमद्वार में अर्थाधिकार यह है, जैसे कि साधु को धर्म में समाधि करनी चाहिए । जिसके द्वारा आत्मा मोक्ष या मोक्ष के मार्ग में अच्छी तरह स्थापन किया जाता है, वह समाधि है, वह धर्मध्यान आदिक है । उस धर्मध्यान आदि को अच्छी तरह से जानकर साधु को ग्रहण करना चाहिए । अब निर्युक्तिकार नामनिष्पन्न निक्षेप के विषय में कहते हैं
आयाण पदेणाऽऽघं गोणं णामं पुणो समाहिति । णिक्खिविहुण समाहिं, भावसमाहीइ पगयं तु ॥१०३॥ नि० | णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए, णिक्खेयो छव्यिहो होड़ ॥ १०४ ॥ नि० पञ्चसु विससु सुभेसु, दव्यंमि त्ता भवे समाहिति । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ ॥ १०५ ॥ नि० | भावसमाहि चउव्विह दंसणणाणे तये चरिते य । चउसुवि समाहियप्पा समं चरणट्ठिओ साहू ॥१०६ ॥ नि० | टीका - आदीयते - गृह्यते प्रथममादौ यत्तदादानम् आदानं च तत्पदं च सुबन्तं तिङन्तं वा तदादानपदं तेन “आघं” ति नामास्याध्ययनस्य यस्मादध्ययनादाविदं सूत्रं - "आघं मईमं मणुवीइ धम्म" मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकमप्यादानपदेन "असंखय" मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरिति, यस्मात्स एवात्र प्रतिपाद्यते तं च समाधिं नामादिना निक्षिप्य भावसमाधिनेह "प्रकृतम्” अधिकार इति । समाधिनिक्षेपार्थमाहनामस्थापना-द्रव्यक्षेत्रकालभावभेदात् एष तु समाधिनिक्षेपः षड्विधो भवति, तुशब्दो गुणनिष्पन्नस्यैव नाम्नो निक्षेपो भवतीत्यस्यार्थस्याविर्भावनार्थ इति, नामस्थापने सुगमत्वादनादृत्य द्रव्यादिकमधिकृत्याह - पञ्चस्वपि शब्दादिषु मनोज्ञेषु विषयेषु श्रोत्रादीन्द्रियाणां यथास्वं प्राप्तौ सत्यां यस्तुष्टिविशेषः स द्रव्यसमाधिः तदन्यथा त्वसमाधिरिति, यदिवा द्रव्ययोर्द्रव्याणां वा सम्मिश्राणामविरोधिनां सतां न रसोपघातो भवति अपितु रसपुष्टिः स द्रव्यसमाधिः, तद्यथाक्षीरशर्करयोर्दधिगुडचातुर्जातकादीनां चेति, येन वा द्रव्येणोपभुक्तेन समाधि पानकादिना समाधिर्भवति तद्द्द्रव्यं द्रव्यसमाधिः, तुलादावारोपितं वा यत् द्रव्यं समतामुपैतीत्यादिको द्रव्यसमाधिरिति, क्षेत्रसमाधिस्तु यस्य यस्मिन् क्षेत्रे व्यवस्थितस्य समाधिरुत्पद्यते स क्षेत्रप्राधान्यात् क्षेत्रसमाधिः यस्मिन्वा क्षेत्रे समाधिर्व्यावर्ण्यत इति, कालसमाधिरपि यस्य यं कालमवाप्य समाधिरुत्पद्यते, तद्यथा शरदि गवां नक्तमुलूकानामहनि बलिभुजां यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन्वा काले समाधिर्व्याख्यायते स कालप्राधान्यात् कालसमाधिरिति । भावसमाधिं त्वधिकृत्याह - भावसमाधिस्तु दर्शनज्ञानतपश्चारित्रभेदाच्चतुर्द्धा, तत्र चतुर्विधमपि भावसमाधिं समासतो गाथा - पश्चार्धेनाह-मुमुक्षुणा चर्यत इति चरणं तत्र सम्यक्चरणे-चारित्रे व्यवस्थितः - समुद्युक्तः "साधुः " मुनिश्चतुर्ष्वपि भावसमाधिभेदेषु दर्शनज्ञानतपश्चारित्ररूपेषु सम्यगाहितोव्यवस्थापित आत्मा येन स समाहितात्मा भवति, इदमुक्तं भवति - यः सम्यक्वरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो वा भावसमाधिसमाहितात्मा भवति, स सम्यक्चरणे व्यवस्थितो द्रष्टव्य इति, तथाहि - दर्शनसमाधौ