SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गेभाषानुवादसहिते नवममध्ययने प्रस्तावना भावधर्ममध्ययनं || अथ नवमं अध्ययनं प्रारभ्यते ॥ अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने बालपण्डितभेदेन द्विरूपं वीर्य प्रतिपादतं, अत्रापि तदेव पण्डितवीर्यं धर्म प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथाधर्मोऽत्र प्रतिपाद्यत इति तमधिकृत्य नियुक्तिकृदाह अष्टम अध्ययन कहने के पश्चात् अब नवम अध्ययन आरम्भ किया जाता है। इसका पूर्व अध्ययन के साथ सम्बन्ध यह है । पूर्व अध्ययन में बाल और पण्डित भेद से दो प्रकार के वीर्य्य कहे गये हैं। उनमें पण्डित वीर्य्य वही है, जो धर्म के लिए उद्यम करता है, अतः इस अध्ययन में धर्म का कथन किया जाता है। इस सम्बन्ध से यह धर्माध्ययन आया है । इसके भी उपक्रम आदि चार अनुयोगद्वार पूर्ववत् कहने चाहिए, उनमें उपक्रम में अर्थाधिकार यह है, इस अध्ययन में धर्म का वर्णन किया जाता है । उस धर्म के विषय में नियुक्तिकार कहते हैंधम्मो पुबुद्दिट्ठो भावथम्मेण एत्थ अहिगारो । एसेव होइ धम्म एसेव समाहिमग्गोत्ति ॥९॥ नि। टीका - दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवैकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्ट:प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशन्नाहएष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैष एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कश्चिद्वेदः, तथाहि-धर्मः श्रुतचारित्राख्यः क्षान्त्यादिलक्षणो वा दशप्रकारो भवेत्, भावसमाधिरप्येवंभूत एव, तथाहि-सम्यगाधानम्-आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति ॥९९॥ साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थं धर्मस्य नामादिनिक्षेपं दर्शयितुमाहणामंठवणाधम्मो दव्वधम्मो य भावधम्मो य । सच्चित्ताचित्तमीसगगिहत्थदाणे दवियधम्मे ॥१०॥ नि। नामस्थापनाद्रव्यभावभेदाच्चतुर्धा धर्मस्य निक्षेपः, तत्रापि नामस्थापने अनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यधर्मः सचित्ताचित्तमिश्रभेदात् विधा, तत्रापि सचित्तस्य जीवच्छरीरस्योपयोगलक्षणो 'धर्मः' स्वभावः, एवमचित्तानामपि धर्मास्तिकायादीनां यो यस्य स्वभावः स तस्य धर्म इति, तथाहि- . “गइलक्खणओ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं अवगाहलक्खणं ||१||" पुद्धलास्तिकायोऽपि ग्रहणलक्षण इति, मिश्रद्रव्याणां च क्षीरोदकादीनां यो यस्य स्वभावः स तद्धर्मतयाऽवगन्तव्य इति, गृहस्थानां च यः कुलनगरप्रामादिधर्मो गृहस्थेभ्यो गृहस्थानां वा यो दानधर्मः स द्रव्यधर्मोऽवगन्तव्य इति, तथा चोक्तम्“अल्लं पानं च वच्नं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ।।१||१००॥" भावधर्मस्वरूपनिरूपणायाहलोइयलोउत्तरिओ दुविहो पुण होति भावधम्मो उ । दुयिहोवि दुविहतिविहो पंचविहो होति णायव्यो॥१०१॥नि भावधर्मो नोआगमतो द्विविधः, तद्यथा-लौकिको लोकोत्तरश्च, तत्र लौकिको द्विविधः- गृहस्थानां पाखण्डिकानां च, लोकोत्तरस्त्रिविधः-ज्ञानदर्शनचारित्रभेदात्, तत्राप्याभिनिबोधादिकं ज्ञानं पञ्चधा, दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात् पञ्चविधं, चारित्रमपि सामायिकादिभेदात पञ्चधैव । गाथाऽक्षराणि त्वेवं नेयानि तद्यथा भावधर्मो लौकिकलोकोत्तरभेदाद्विधः, द्विविधोऽपि चायं यथासङ्खयेन द्विविधस्त्रिविधः, तत्रैव लौकिको गृहस्थपाखण्डिकभेदात् द्विविधः, लोकोत्तरोऽपि ज्ञानदर्शनचारित्रभेदात् त्रिविधः, ज्ञानादीनि प्रत्येकं त्रीण्यपि पञ्चधैवेति ॥१०१॥ तत्र ज्ञानदर्शनचारित्रवतां साधूनां यो धर्मस्तं दर्शयितुमाहपासत्थोसण्णकुशीलसंथयो ण किर वट्टती काउं । सूयगडे अज्झयणे धम्ममि निकाइतं एयं ॥१०२॥ नि ४१६
SR No.032700
Book TitleSutrakritanga Sutra Part 02
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy