________________
सूत्रकृताङ्गेभाषानुवादसहिते अष्टममध्ययने प्रस्तावना
श्रीवीर्याधिकारः पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण संयोजितां, पुंसां प्राप्य हरीतकीमिव गदा नश्यन्तु ते शत्रवः ||१||९२-९३॥"
भाववीर्यप्रतिपादनायाहभावो जीवस्स सीरियस्स विरियंमि लद्धिडणेगविहा । ओरस्सिंदिय अज्झप्पिएसु बहुसो बहुविहीयं ॥९४॥ नि० मणवइकाया आणापाणू संभव तहा य संभव्ये । सोत्तादीणं सद्दादिएसु विसएसु गहणं च ॥९५॥ नि।
'सवीर्यस्य वीर्यशक्त्युपेतस्य जीवस्य 'वीर्ये' वीर्यविषये अनेकविधा लब्धिः, तामेव गाथापश्चार्धेन दर्शयति, तद्यथा-उरसि भवमौरस्यं शारीरबलमित्यर्थः, तथेन्द्रियबलमाध्यात्मिकं बलं बहुशो बहुविधं द्रष्टव्यमिति । एतदेव दर्शयितमाह-आन्तरेण व्यापारेण गृहीत्वा पुद्गलान् मनोयोग्यान् मनस्त्वेन परिणमयति, भाषायोग्यान् भाषात्वे काययोग्यान् कायत्वेन, आनापानयोग्यान् तद्भावेनेति, तथा मनोवाक्कायादीनां तद्भावपरिणतानां यद्वीय-सामर्थ्यं तद्विविधंसम्भवे सम्भाव्येच, सम्भवे तावत्तीर्थकृतामनुत्तरोपपातिकानां च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तथाहितीर्थकृतामनुत्तरोपपातिकसुरमनःपर्यायज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात् अनुत्तरोपपातिकसुराणां च सर्वव्यापारस्यैव मनसा निष्पादनादिति, सम्भाव्ये तु यो हि यमर्थं पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणमयितुं सम्भाव्यते त्वेष परिकर्यमाणः शक्ष्यत्यमुमर्थं परिणमयितुमिति, वाग्वीर्यमपि द्विविधं-सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजननिरिणी वाक् सर्वस्वस्वभाषानुगता च तथाऽन्येषामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति, तथा हंसकोकिलादीनां सम्भवति, स्वरमाधुर्य, सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्य, तथा चोक्तम्- “सामा गायति महुरं काली गायति खरं च रुक्खं चे" त्यादि, तथा सम्भावयामः- एनं श्रावकदारकम् अकृतमुखसंस्कारमप्यक्षरेषु यथावदभिलप्तव्येष्विति, तथा सम्भावयामः शुकसारिकादीनां वाचो मानुषभाषापरिणामः, कायवीर्यमप्यौरस्यं यद्यस्य बलं, तदपि द्विविधं-सम्भवे सम्भाव्ये च, संभवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादि कायबलं, तद्यथाकोटिशिला त्रिपृष्ठेन वामकरतलेनोद्धृता, यदिवा-'सोलस रायसहस्सा' इत्यादि यावदपरिमितबला जिनवरेन्द्रा इति, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुं तथा मेरुं दण्डवद्गृहीत्वा वसुधां छत्रकवद्धर्तुमिति, तथा सम्भाव्यते अन्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमिति, तथा सम्भाव्यते अयं दारकः परिवर्धमानः शिलामेनामुद्धत्तुं हस्तिनं दमयितुमश्वं वाहयितुमित्यादि, इन्द्रियबलमपि श्रोत्रेन्द्रियादि स्वविषयग्रहणसमर्थ पञ्चधा एकैकं, द्विविध-सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति, सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वा अर्थग्रहणासमर्थमपि • इन्द्रियं सद्यथोक्त-दोषोपशमे तु सति संभाव्यते विषयग्रहणायेति ।।९४-९५।। साम्प्रतमाध्यात्मिकं वीर्यं दर्शयितुमाहउज्जमधितिधीरत्तं सोंडीरतं खमा य गंभीरं । उयओगजोगतयसंजमादियं होइ अझप्पो ॥१६॥ नि०
आत्मन्यधीत्यध्यात्म तत्र भवमाध्यात्मिकम्-आन्तरशक्तिजनितं सात्त्विकमित्यर्थः, तच्चानेकधा-तत्रोद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, एतदपि यथायोगं सम्भवे सम्भाव्ये च योजनीयमिति, धृतिः संयमे थे मिति(यावत्), धीरत्वं परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नता, षट्खण्डमपि भरतं त्यजतश्चक्रवर्तिनो न मनः कम्पते, यदिवाऽऽपद्यविषण्णता, यदिवा विषमेऽपि कर्तव्ये समुपस्थिते पराभियोगमकुर्वन् मयैवैतत्कर्तव्यमित्येवं हर्षायमाणोऽविषण्णो विधत्त इति, क्षमावीर्यं तु परैराक्रुश्यमानोऽपि मनागपि मनसा न क्षोभमुपयाति, भावयति (च तत्त्वं,) तच्चेदम्"आकुष्टेन मतिमता तत्त्वार्थगवेषणे मतिः कार्या । यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ? ||१||"
तथा "अक्कोसहणणमारणधम्मभंसाण बालसुलभाणं । लामं मन्नइ धीरो जहुत्तराणं अभावं(लाभं) मि ||१||"
गाम्भीर्यवीर्यं नाम परीषहोपसर्गेरधृष्यत्वं, यदिवा यत् मनसश्चमत्कारकारिण्यपि स्वानुष्ठाने अनौद्धत्यं, उक्तम् च
1. आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानां लाभं मन्यते धीरो यथोत्तराणामभावे ॥१॥